अल्पानामपि वस्तूनां संहतिः कार्यसाधिका
हितोपदेशस्य ‘मित्रलाभ’ प्रकरणे वर्णितां चित्रग्रीव-हिरण्यक-कथाम् आधृत्य रचितः अयं पाठः, यत्र उत्तराखण्ड-यात्रायां संकटस्थाः मित्राणि ‘संगठनम् एव शक्तिः’ इति शिक्षां गृह्णन्ति। अत्र कथासारः, श्लोकव्याख्या, शब्दार्थाः, व्याकरणसूत्राणि तथा समग्राणि प्रश्नोत्तराणि प्रस्तुतानि सन्ति।
कथासारः
प्रथमः भागः — यात्रा एवं संकटः : ग्रीष्मावकाशे कतिचन मित्राणि पुण्यक्षेत्रदर्शनाय उत्तराखण्डं देवभूमिं गच्छन्ति। श्रीकेदारक्षेत्रम् आरोहन्तः एव सहसा प्रबला वृष्टिः आरभते, अन्धकारः प्रसरति, सेतुः भग्नो भवति तथा पर्वतस्खलनं जायते। सर्वे भयभीताः ईश्वरं प्रार्थयन्ति। तदा नायकः धैर्येण सर्वान् सान्त्वयति व प्रेरयति यत् संकटकाले धैर्यम् अवलम्ब्य उपायः चिन्तनीयः।
द्वितीयः भागः — हितोपदेशस्य कथा : धैर्यसंचारार्थं नायकः हितोपदेशस्य एकां कथां श्रावयति — गोदावरीतीरे एकः विशालः शाल्मलीवृक्षः आसीत्, यत्र चित्रग्रीवनामा कपोतराजः स्वपरिवारेण सह निवसति स्म। एकः व्याधः तण्डुलकणान् विकीर्य जालं विस्तार्य छद्मरूपेण स्थितः। लोभाकृष्टाः कपोताः तण्डुलकणान् भोक्तुं अवतीर्य जाले बद्धाः अभवन्। चित्रग्रीवः सर्वान् सान्त्वयित्वा उपदिशति — “अल्पानामपि वस्तूनां संहतिः कार्यसाधिका” — अतः सर्वे एकचित्तीभूय जालम् आदाय उड्डीयन्ते, व्याधात् दूरं गत्वा। तदनन्तरं चित्रग्रीवस्य मित्रं हिरण्यकनामा मूषकराजः स्वदन्तबलेन सर्वेषां पाशान् छित्त्वा तान् मुक्तान् करोति।
तृतीयः भागः — प्रेरणा एवं परिणामः : कथां श्रुत्वा नायकः सर्वान् बोधयति — यदि आपद्ग्रस्ताः कपोताः संघटनसामर्थ्येन आत्मरक्षां कर्तुं समर्थाः अभवन्, तर्हि वयमपि संघटिताः भूत्वा किमर्थं न कुर्याम? नायकस्य प्रेरकवचनैः उत्साहिताः सर्वे मित्राणि भयं शोकं सन्देहं च विहाय सेतुनिर्माणकार्ये संलग्नाः भूत्वा भगीरथप्रयत्नैः सेतुं निर्माय स्वप्राणान् अन्येषां च प्राणान् संरक्षितवन्तः।
हितोपदेशस्य श्लोकद्वयम्
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥
पदच्छेदः
अल्पानाम् अपि वस्तूनाम् संहतिः कार्य-साधिका। तृणैः गुणत्वम् आपन्नैः बध्यन्ते मत्त-दन्तिनः।
अन्वयः
अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका। गुणत्वम् आपन्नैः तृणैः मत्त-दन्तिनः बध्यन्ते।
भावार्थः (सरलरूपेण)
छोटी-छोटी, दुर्बल वस्तुओं का संगठन (संघ, समुदाय) भी लक्ष्य-सिद्धि में सहायक होता है। जिस प्रकार अलग-अलग तिनके (घास) जब रस्सी के रूप में एकत्र हो जाते हैं, तो उस रस्सी से मदमस्त हाथी तक बाँधे जा सकते हैं — उसी प्रकार एकता में असीम शक्ति निहित होती है।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥
पदच्छेदः
विपदि धैर्यम् अथ अभ्युदये क्षमा सदसि वाक्-पटुता युधि विक्रमः। यशसि च अभिरुचिः व्यसनम् श्रुतौ प्रकृति-सिद्धम् इदम् हि महात्मनाम्।
अन्वयः
अथ विपदि धैर्यम्, अभ्युदये क्षमा, सदसि वाक्-पटुता, युधि विक्रमः, यशसि अभिरुचिः, श्रुतौ व्यसनं च इदं हि महात्मनां प्रकृति-सिद्धं भवति।
भावार्थः (सरलरूपेण)
महापुरुषों का यह आचरण स्वभावसिद्ध ही होता है — संकट में धैर्य रखना, उन्नति/समृद्धि में क्षमाशील होना, सभा में कुशलतापूर्वक भाषण देना, युद्ध में पराक्रम व शौर्य दिखाना, यश के विषय में रुचि रखना, तथा शास्त्र-श्रवण में अनुराग रखना — ये सभी गुण महापुरुषों के स्वभाव में सहज ही सिद्ध होते हैं।
वयं शब्दार्थान् जानीमः
| शब्दः | संस्कृत अर्थः | हिन्दी | English |
|---|---|---|---|
| भग्नः | नष्टः | टूट गया | Broke down |
| अक्रन्दन् | रुदन्ति स्म | रोये | They cried |
| सविषादम् | चिन्तापूर्वकम् | विषादपूर्वक | With sadness |
| सम्भूय | मिलित्वा | मिलकर | Together |
| तरुः | वृक्षः | पेड़ | Tree |
| व्याधः | लुब्धकः | व्याध | Hunter |
| तण्डुलकणान् | तण्डुललवान् | चावल के दानों को | Rice grains |
| विकीर्य | विकिरणं कृत्वा | बिखेर कर | Having scattered |
| विस्तीर्य | विस्तरणं कृत्वा | फैलाकर | Having spread |
| प्रच्छन्नः | गुप्तः | छिपा हुआ | Hidden secretly |
| चित्रग्रीवनामा | चित्रग्रीवः नाम यस्य | चित्रग्रीव नाम का | Named Chitragriva |
| प्रतीकारः | प्रतिविधानम् | उपाय | Remedy |
| अविचारितम् | अचिन्तितम् | बिना सोचे | Not thought of |
| अवतीर्य | अवतरणं कृत्वा | उतर कर | Having descended |
| अवलोक्य | दृष्ट्वा | देख कर | Having seen |
| अप्रवर्तनम् | अप्रवृत्तिः | प्रवृत्त न होना | No inclination |
| प्रवृत्ताः | निरताः | लगे हुए | Engaged |
| अवलम्ब्य | आश्रित्य | आश्रित होकर | Depending on |
| एकचित्तीभूय | एकमनसा | एक चित्त होकर | With united mind |
| कापुरुषलक्षणम् | कुत्सितपुरुषाणां चिह्नम् | कायर पुरुषों का लक्षण | Signs of a coward |
| तिरस्कुर्वन्ति | अनादरं कुर्वन्ति | तिरस्कार करते हैं | Reject |
| विस्मयः | आश्चर्यम् | आश्चर्य | Amazement |
| विक्रमः | अतिपराक्रमः | अत्यधिक शक्तियुक्त | Valour |
| उत्पतिताः | उड्डयनं कृतवन्तः | उड़ गए | Flew away |
| चिन्त्यताम् | चिन्तनीयः | सोचिए | Should be thought |
| आलोच्य | विचार्य | अच्छी तरह विचार कर | Having analysed |
| पाशान् | बन्धनानि | बन्धनों को | Captivity |
| प्रत्यभिज्ञाय | ज्ञात्वा | जानकर, समझकर | Having recognized |
| त्वरया | शीघ्रम् | शीघ्र | Quickly |
| निःसृत्य | निर्गत्य | निकल कर | Coming out |
| छिनत्तु | छेदनं कुरु | काट दे | (You) cut |
| आकर्ण्य | श्रुत्वा | सुनकर | Having heard |
| प्रहृष्टमनाः | आनन्दितमनाः | प्रसन्न मन वाला | Gleeful |
| पुलकितः | रोमाञ्चितः | प्रफुल्लित होकर | Excited |
| उपसर्पति | समीपम् आगच्छति | निकट आता है | Approaches near |
| आश्रितवात्सल्येन | शरणागतानां कृते स्नेहभावेन | शरण में आए हुओं के प्रति प्रेम से | Affection towards those who take shelter |
| आशङ्क्य | शङ्कां कृत्वा | शङ्का करके | Having doubted |
| अवज्ञा | तिरस्कारः | निन्दा | Disrespect |
पाठ्यांश (संवाद) प्रश्नोत्तराणि — In-text Q&A
प्र.यात्रायाः समये अकस्मात् किं संकटं समुत्पन्नम्, तथा तत्र मित्राणि किम् अकुर्वन्?
प्र.दिनेशः विषादपूर्वकं किम् अवदत्, तथा नायकः तं कथम् उत्तरम् अददात्?
प्र.सुरेशः कां शङ्कां प्रकटयति, तथा नायकः तस्याः किम् उत्तरं ददाति?
प्र.कपिलस्य जिज्ञासायाः समाधानार्थं नायकः किम् उपायम् अवलम्बते?
प्र.व्याधः निवृत्तः अभवत् तदा कपोताः चित्रग्रीवं किम् अपृच्छन्, स च किम् उत्तरं ददौ?
प्र.चित्रग्रीवः हिरण्यकं स्वबन्धनं प्रथमं छेत्तुं किमर्थं निषेधति?
अभ्यासात् जायते सिद्धिः — सम्पूर्ण उत्तराणि
अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत
पूर्णवाक्येन उत्तरं लिखत
कयदा केदारक्षेत्रम् आरोहन्तः आसन् किम् अभवत्?
खसर्वे उच्चस्वरेण किं प्रार्थयन्त?
गअसम्भवं कार्यं कथं कर्तुं शक्यते इति नायकः उक्तवान्?
घनिर्जने वने तण्डुलकणान् दृष्ट्वा चित्रग्रीवः किं निरूपयति?
ङकिं नीतिवचनं प्रसिद्धम्?
चव्याधात् रक्षां प्राप्तुं चित्रग्रीवः कम् आदेशं दत्तवान्?
छहिरण्यकः किमर्थं तूष्णीं स्थितः?
जपुलकितः हिरण्यकः चित्रग्रीवं कथं प्रशंसति?
झकपोताः कथम् आत्मरक्षणं कृतवन्तः?
ञनायकस्य प्रेरकवचनैः सर्वेऽपि किम् अकुर्वन्?
वाक्यानि पठित्वा ल्यप्-प्रत्ययान्तेषु परिवर्तयत
उपसर्गयोजनेन क्त्वा-स्थाने ल्यप्-प्रत्ययस्य प्रयोगं कृत्वा पदानि परिवर्तयत
पाठे प्रयुक्तेन उपयुक्तपदेन रिक्तस्थानं पूरयत
पाठे प्रयुक्तेन ल्यप्-प्रत्ययान्तपदेन सह उपयुक्तं पदं योजयत
समासयुक्तपदेन रिक्तस्थानं पूरयत
सार्थकपदं ज्ञात्वा सन्धिविच्छेदं कुरुत
परियोजनाकार्यम्
१क्रियापदानां प्रयोगेण वाक्यरचना (उदाहरणम्: तिरस्कुर्वन्ति – दुर्जनाः सज्जनं तिरस्कुर्वन्ति)
निवसति – सः ग्रामे निवसति।
आह – अध्यापकः छात्रान् आह “पठत इति”।
छेत्स्यति – कृषकः वृक्षं छेत्स्यति।
सम्भाषसे – त्वं मया सह किं न सम्भाषसे?
अब्रवीत् – माता पुत्रम् अब्रवीत्।
उपसर्पति – बालकः मातुः समीपम् उपसर्पति।
युज्यते – सत्कार्ये सदैव सफलता युज्यते।
२अनया कथया वयं स्वजीवने कां शिक्षां स्वीकर्तुं शक्नुमः?
अत्र इदम् अवधेयम्
ल्यप्-प्रत्ययः
यत्र एकस्याः क्रियायाः समाप्तेः अनन्तरम् उत्तरक्रिया भवति, तत्र पूर्वकालिके क्रियाव्यवहारे धातोः क्त्वा-प्रत्ययः भवति। तत्रैव यदि धातोः पूर्वं किमपि उपसर्गादिपदं भवति, तर्हि क्त्वा-प्रत्ययस्थाने ल्यप् भवति। ल्यप्-प्रत्यये केवलं ‘य्’ मात्रम् अवशिष्यते। क्त्वा-ल्यप्-प्रत्ययान्तानि पदानि अव्ययानि भवन्ति।
तण्डुलकणान् अवलोक्य (अव + लोक् + ल्यप्) कपोतान् प्रति आह।
धैर्यम् अवलम्ब्य (अव + लम्ब् + ल्यप्) प्रतीकारः चिन्त्यताम्।
| लट्-लकारक्रिया | प्रकृति-प्रत्ययविभागः | ल्यबन्तरूपम् | विवरणार्थः |
|---|---|---|---|
| आगच्छति | आ+गम्+ल्यप् | आगत्य | आगमनं कृत्वा |
| आनयति | आ+नी+ल्यप् | आनीय | आनयनं कृत्वा |
| उत्तिष्ठति | उत्+स्था+ल्यप् | उत्थाय | उत्थानं कृत्वा |
| प्रणमति | प्र+नम्+ल्यप् | प्रणम्य | प्रणामं कृत्वा |
| उपकरोति | उप+कृ+ल्यप् | उपकृत्य | उपकारं कृत्वा |
| निर्दिशति | निर्+दिश्+ल्यप् | निर्दिश्य | निर्देशं कृत्वा |
| निश्चिनोति | निस्+चि+ल्यप् | निश्चित्य | निश्चयं कृत्वा |
| विस्मरति | वि+स्मृ+ल्यप् | विस्मृत्य | विस्मरणं कृत्वा |
| परिष्करोति | परि+कृ+ल्यप् | परिष्कृत्य | परिष्कारं कृत्वा |
| आरभते | आ+रभ्+ल्यप् | आरभ्य | आरम्भं कृत्वा |
| स्वीकरोति | स्वी+कृ+ल्यप् | स्वीकृत्य | स्वीकारं कृत्वा |
| विलिखति | वि+लिख्+ल्यप् | विलिख्य | लेखनं कृत्वा |
| प्रक्षालयति | प्र+क्षालि+ल्यप् | प्रक्षाल्य | प्रक्षालनं कृत्वा |
| अपकरोति | अप+कृ+ल्यप् | अपकृत्य | अपकारं कृत्वा |
| अवलोकते | अव+लोक्+ल्यप् | अवलोक्य | अवलोकनं कृत्वा |
| आशङ्कते | आ+शकि+ल्यप् | आशङ्क्य | आशङ्कां कृत्वा |
| विकिरति | वि+कॄ+ल्यप् | विकीर्य | विकिरणं कृत्वा |
| अवतरति | अव+तॄ+ल्यप् | अवतीर्य | अवतरणं कृत्वा |
| विस्तृणाति | वि+स्तॄ+ल्यप् | विस्तीर्य | विस्तरणं कृत्वा |
| अवलम्बते | अव+लम्ब्+ल्यप् | अवलम्ब्य | अवलम्बनं कृत्वा |
| निर्माति | निर्+मा+ल्यप् | निर्माय | निर्माणं कृत्वा |
विसर्गसन्धिः
- यत्र विसर्गात् परं चकारः अथवा छकारः भवति, तत्र विसर्गस्य स्थाने शकारः भवति।
कः+चित् = कश्चित्। प्रतीकारः+चिन्त्यताम् = प्रतीकारश्चिन्त्यताम्। देवदत्तः+छलेन = देवदत्तश्छलेन। - यत्र विसर्गात् परं तकारः अथवा थकारः भवति, तत्र विसर्गस्य स्थाने सकारः भवति।
चकितः+तूष्णीम् = चकितस्तूष्णीम्। नीतिः+तावत् = नीतिस्तावत्। - यदि विसर्गात् पूर्वम् अकारः, परं च वर्गस्य तृतीय-चतुर्थ-पञ्चमवर्णः तथा ह्, य्, व्, र्, ल् इत्येतेषु कोऽपि वर्णः भवति, तर्हि अकारस्य विसर्गस्य च स्थाने ओकारः भवति।
हिरण्यकः+नाम = हिरण्यको नाम। ततः+हिरण्यकः = ततो हिरण्यकः। व्याधः+निवृत्तः = व्याधो निवृत्तः। - यदि विसर्गात् पूर्वं पश्चात् च अकारः भवति, तत्र पूर्वतन-अकारस्य स्थाने तथा विसर्गस्य स्थाने ओकारः भवति।
कुतः+अत्र = कुतोऽत्र। हितः+अपि = हितोऽपि। सः+अस्माकम् = सोऽस्माकम्।
