द्वितीयः पाठः – “अल्पानामपि वस्तूनां संहतिः कार्यसाधिका” (Alpānāmapi Vastūnāṁ Saṁhatiḥ Kāryasādhikā) Class 8th Sanskrit (Deepakam) NCERT Solution

अल्पानामपि वस्तूनां संहतिः कार्यसाधिका — सम्पूर्ण समाधानम्
दीपकम् · कक्षा ८ · द्वितीयः पाठः

अल्पानामपि वस्तूनां संहतिः कार्यसाधिका

सम्पूर्ण समाधानम् — Full Solutions

हितोपदेशस्य ‘मित्रलाभ’ प्रकरणे वर्णितां चित्रग्रीव-हिरण्यक-कथाम् आधृत्य रचितः अयं पाठः, यत्र उत्तराखण्ड-यात्रायां संकटस्थाः मित्राणि ‘संगठनम् एव शक्तिः’ इति शिक्षां गृह्णन्ति। अत्र कथासारः, श्लोकव्याख्या, शब्दार्थाः, व्याकरणसूत्राणि तथा समग्राणि प्रश्नोत्तराणि प्रस्तुतानि सन्ति।

कथा

कथासारः

चित्रम् : वर्षा-प्रकोपे संकटस्थाः यात्रीमित्राणि — नायकः सर्वान् धैर्यम् अवलम्ब्य प्रेरयति

प्रथमः भागः — यात्रा एवं संकटः : ग्रीष्मावकाशे कतिचन मित्राणि पुण्यक्षेत्रदर्शनाय उत्तराखण्डं देवभूमिं गच्छन्ति। श्रीकेदारक्षेत्रम् आरोहन्तः एव सहसा प्रबला वृष्टिः आरभते, अन्धकारः प्रसरति, सेतुः भग्नो भवति तथा पर्वतस्खलनं जायते। सर्वे भयभीताः ईश्वरं प्रार्थयन्ति। तदा नायकः धैर्येण सर्वान् सान्त्वयति व प्रेरयति यत् संकटकाले धैर्यम् अवलम्ब्य उपायः चिन्तनीयः।

द्वितीयः भागः — हितोपदेशस्य कथा : धैर्यसंचारार्थं नायकः हितोपदेशस्य एकां कथां श्रावयति — गोदावरीतीरे एकः विशालः शाल्मलीवृक्षः आसीत्, यत्र चित्रग्रीवनामा कपोतराजः स्वपरिवारेण सह निवसति स्म। एकः व्याधः तण्डुलकणान् विकीर्य जालं विस्तार्य छद्मरूपेण स्थितः। लोभाकृष्टाः कपोताः तण्डुलकणान् भोक्तुं अवतीर्य जाले बद्धाः अभवन्। चित्रग्रीवः सर्वान् सान्त्वयित्वा उपदिशति — “अल्पानामपि वस्तूनां संहतिः कार्यसाधिका” — अतः सर्वे एकचित्तीभूय जालम् आदाय उड्डीयन्ते, व्याधात् दूरं गत्वा। तदनन्तरं चित्रग्रीवस्य मित्रं हिरण्यकनामा मूषकराजः स्वदन्तबलेन सर्वेषां पाशान् छित्त्वा तान् मुक्तान् करोति।

तृतीयः भागः — प्रेरणा एवं परिणामः : कथां श्रुत्वा नायकः सर्वान् बोधयति — यदि आपद्ग्रस्ताः कपोताः संघटनसामर्थ्येन आत्मरक्षां कर्तुं समर्थाः अभवन्, तर्हि वयमपि संघटिताः भूत्वा किमर्थं न कुर्याम? नायकस्य प्रेरकवचनैः उत्साहिताः सर्वे मित्राणि भयं शोकं सन्देहं च विहाय सेतुनिर्माणकार्ये संलग्नाः भूत्वा भगीरथप्रयत्नैः सेतुं निर्माय स्वप्राणान् अन्येषां च प्राणान् संरक्षितवन्तः।

चित्रम् : व्याधस्य जाले बद्धाः कपोताः — चित्रग्रीवस्य नेतृत्वे एकचित्तीभूय उड्डयनम्
श्लोकौ

हितोपदेशस्य श्लोकद्वयम्

श्लोकः १
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका।
तृणैर्गुणत्वमापन्नैर्बध्यन्ते मत्तदन्तिनः ॥
(हितोपदेशः १.३६)

पदच्छेदः

अल्पानाम् अपि वस्तूनाम् संहतिः कार्य-साधिका। तृणैः गुणत्वम् आपन्नैः बध्यन्ते मत्त-दन्तिनः।

अन्वयः

अल्पानाम् अपि वस्तूनां संहतिः कार्य-साधिका। गुणत्वम् आपन्नैः तृणैः मत्त-दन्तिनः बध्यन्ते।

भावार्थः (सरलरूपेण)

छोटी-छोटी, दुर्बल वस्तुओं का संगठन (संघ, समुदाय) भी लक्ष्य-सिद्धि में सहायक होता है। जिस प्रकार अलग-अलग तिनके (घास) जब रस्सी के रूप में एकत्र हो जाते हैं, तो उस रस्सी से मदमस्त हाथी तक बाँधे जा सकते हैं — उसी प्रकार एकता में असीम शक्ति निहित होती है।

श्लोकः २
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥
(हितोपदेशः १.३२)

पदच्छेदः

विपदि धैर्यम् अथ अभ्युदये क्षमा सदसि वाक्-पटुता युधि विक्रमः। यशसि च अभिरुचिः व्यसनम् श्रुतौ प्रकृति-सिद्धम् इदम् हि महात्मनाम्।

अन्वयः

अथ विपदि धैर्यम्, अभ्युदये क्षमा, सदसि वाक्-पटुता, युधि विक्रमः, यशसि अभिरुचिः, श्रुतौ व्यसनं च इदं हि महात्मनां प्रकृति-सिद्धं भवति।

भावार्थः (सरलरूपेण)

महापुरुषों का यह आचरण स्वभावसिद्ध ही होता है — संकट में धैर्य रखना, उन्नति/समृद्धि में क्षमाशील होना, सभा में कुशलतापूर्वक भाषण देना, युद्ध में पराक्रम व शौर्य दिखाना, यश के विषय में रुचि रखना, तथा शास्त्र-श्रवण में अनुराग रखना — ये सभी गुण महापुरुषों के स्वभाव में सहज ही सिद्ध होते हैं।

शब्दार्थाः

वयं शब्दार्थान् जानीमः

शब्दःसंस्कृत अर्थःहिन्दीEnglish
भग्नःनष्टःटूट गयाBroke down
अक्रन्दन्रुदन्ति स्मरोयेThey cried
सविषादम्चिन्तापूर्वकम्विषादपूर्वकWith sadness
सम्भूयमिलित्वामिलकरTogether
तरुःवृक्षःपेड़Tree
व्याधःलुब्धकःव्याधHunter
तण्डुलकणान्तण्डुललवान्चावल के दानों कोRice grains
विकीर्यविकिरणं कृत्वाबिखेर करHaving scattered
विस्तीर्यविस्तरणं कृत्वाफैलाकरHaving spread
प्रच्छन्नःगुप्तःछिपा हुआHidden secretly
चित्रग्रीवनामाचित्रग्रीवः नाम यस्यचित्रग्रीव नाम काNamed Chitragriva
प्रतीकारःप्रतिविधानम्उपायRemedy
अविचारितम्अचिन्तितम्बिना सोचेNot thought of
अवतीर्यअवतरणं कृत्वाउतर करHaving descended
अवलोक्यदृष्ट्वादेख करHaving seen
अप्रवर्तनम्अप्रवृत्तिःप्रवृत्त न होनाNo inclination
प्रवृत्ताःनिरताःलगे हुएEngaged
अवलम्ब्यआश्रित्यआश्रित होकरDepending on
एकचित्तीभूयएकमनसाएक चित्त होकरWith united mind
कापुरुषलक्षणम्कुत्सितपुरुषाणां चिह्नम्कायर पुरुषों का लक्षणSigns of a coward
तिरस्कुर्वन्तिअनादरं कुर्वन्तितिरस्कार करते हैंReject
विस्मयःआश्चर्यम्आश्चर्यAmazement
विक्रमःअतिपराक्रमःअत्यधिक शक्तियुक्तValour
उत्पतिताःउड्डयनं कृतवन्तःउड़ गएFlew away
चिन्त्यताम्चिन्तनीयःसोचिएShould be thought
आलोच्यविचार्यअच्छी तरह विचार करHaving analysed
पाशान्बन्धनानिबन्धनों कोCaptivity
प्रत्यभिज्ञायज्ञात्वाजानकर, समझकरHaving recognized
त्वरयाशीघ्रम्शीघ्रQuickly
निःसृत्यनिर्गत्यनिकल करComing out
छिनत्तुछेदनं कुरुकाट दे(You) cut
आकर्ण्यश्रुत्वासुनकरHaving heard
प्रहृष्टमनाःआनन्दितमनाःप्रसन्न मन वालाGleeful
पुलकितःरोमाञ्चितःप्रफुल्लित होकरExcited
उपसर्पतिसमीपम् आगच्छतिनिकट आता हैApproaches near
आश्रितवात्सल्येनशरणागतानां कृते स्नेहभावेनशरण में आए हुओं के प्रति प्रेम सेAffection towards those who take shelter
आशङ्क्यशङ्कां कृत्वाशङ्का करकेHaving doubted
अवज्ञातिरस्कारःनिन्दाDisrespect
पाठ्यांश

पाठ्यांश (संवाद) प्रश्नोत्तराणि — In-text Q&A

प्र.यात्रायाः समये अकस्मात् किं संकटं समुत्पन्नम्, तथा तत्र मित्राणि किम् अकुर्वन्?

उत्तरम्श्रीकेदारक्षेत्रम् आरोहन्तः एव वेगेन वृष्टिः आरब्धा, सर्वत्र अन्धकारः प्रसृतः, नद्याः तीव्रजलवेगेन सेतुः भग्नः, पर्वतस्खलनं च सञ्जातम्। भयभीताः सर्वे उच्चस्वरेण ईश्वरं प्रार्थयन्तः ‘हे भगवन्! रक्ष अस्मान् रक्ष’ इति अक्रन्दन्।

प्र.दिनेशः विषादपूर्वकं किम् अवदत्, तथा नायकः तं कथम् उत्तरम् अददात्?

उत्तरम्दिनेशः सविषादम् अवदत् — “अरे भ्रातः! किं वदसि? अस्माकं मृत्युः एव सन्निकटे अस्ति। एवं चेत् कथम् उपायः चिन्तनीयः?” तदा नायकः तं सान्त्वयन् अवदत् — “मित्र! विषादं मा कुरु। यदा वृष्टिः शान्ता भविष्यति, तदा वयं सम्भूय सेतुं, मार्गं च निर्माय पुनः स्वलक्ष्यं प्रति गमिष्यामः।”

प्र.सुरेशः कां शङ्कां प्रकटयति, तथा नायकः तस्याः किम् उत्तरं ददाति?

उत्तरम्सुरेशः पृच्छति — “एतस्यां स्थितौ वयं किम् एतत् अत्यन्तं दुःसाध्यम्, असम्भवं च कार्यं कर्तुं शक्नुमः?” नायकः उत्तरं ददाति — “प्रियमित्राणि! वयम् आत्मविश्वासबलेन इदम् असम्भवम् अपि कार्यं सम्भूय अवश्यं साधयितुं शक्नुमः। तेन अस्माकं लक्ष्यप्राप्तिः प्राणरक्षा च अपि भविष्यति।”

प्र.कपिलस्य जिज्ञासायाः समाधानार्थं नायकः किम् उपायम् अवलम्बते?

उत्तरम्कपिलः पृच्छति — “किम् इदं सम्भवति?” तदा नायकः अवदत् — “नूनं सम्भवति मित्र! अस्मिन् प्रसङ्गे अहं हितोपदेशस्य एकां कथां श्रावयामि।” इत्थं सर्वान् उत्कण्ठितान् दृष्ट्वा नायकः चित्रग्रीव-हिरण्यकयोः प्रेरक-कथाम् आरभते।

प्र.व्याधः निवृत्तः अभवत् तदा कपोताः चित्रग्रीवं किम् अपृच्छन्, स च किम् उत्तरं ददौ?

उत्तरम्कपोताः अपृच्छन् — “स्वामिन्! किमिदानीं कर्तुम् उचितम्?” चित्रग्रीवः उत्तरं ददौ यत् तेषां मित्रं हिरण्यकनामा मूषकराजः गण्डकीतीरे चित्रवने निवसति, सः तेषां पाशान् दन्तबलेन छेत्स्यति। एवम् आलोच्य सर्वे हिरण्यकस्य विवरसमीपं गताः।

प्र.चित्रग्रीवः हिरण्यकं स्वबन्धनं प्रथमं छेत्तुं किमर्थं निषेधति?

उत्तरम्यदा हिरण्यकः त्वरितं चित्रग्रीवस्य एव बन्धनं छेत्तुम् उपसर्पति, तदा चित्रग्रीवः अवदत् — “मित्र! मा मा एवम्। पूर्वं मदाश्रितानाम् एतेषां (सामान्यकपोतानां) पाशान् छिनत्तु, पश्चात् मम।” इदं तस्य आश्रितवात्सल्यं तथा नायकधर्मं प्रदर्शयति — नेता स्वस्वार्थात् पूर्वं अनुयायिनां रक्षां चिन्तयति।
अभ्यासः

अभ्यासात् जायते सिद्धिः — सम्पूर्ण उत्तराणि

अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत

क. मित्राणि ग्रीष्मावकाशे कुत्र गच्छन्ति?उत्तराखण्डम् (देवभूमिम्)
ख. सर्वत्र कः प्रसृतः?अन्धकारः
ग. कः सर्वान् प्रेरयन् अवदत्?नायकः
घ. कः हितोपदेशस्य कथां श्रावयति?नायकः
ङ. कपोतराजस्य नाम किम्?चित्रग्रीवः
च. व्याधः कान् विकीर्य जालं प्रसारितवान्?तण्डुलकणान्
छ. विपत्काले विस्मयः कस्य लक्षणम्?कापुरुषस्य
ज. चित्रग्रीवस्य मित्रं हिरण्यकः कुत्र निवसति?गण्डकीतीरे चित्रवने
झ. चित्रग्रीवः हिरण्यकं कथं सम्बोधयति?“सखे” इति
ञ. पूर्वं केषां पाशान् छिनत्तु इति चित्रग्रीवः वदति?मदाश्रितानां (कपोतानां)

पूर्णवाक्येन उत्तरं लिखत

यदा केदारक्षेत्रम् आरोहन्तः आसन् किम् अभवत्?

उत्तरम्यदा ते श्रीकेदारक्षेत्रम् आरोहन्तः आसन्, तदा लक्ष्यप्राप्तेः पूर्वं वेगेन वृष्टिः आरब्धा, सहसा सर्वत्र अन्धकारः प्रसृतः, नद्याः तीव्रजलवेगेन सेतुः भग्नः, तथा पर्वतस्खलनं सञ्जातम्।

सर्वे उच्चस्वरेण किं प्रार्थयन्त?

उत्तरम्सर्वे उच्चस्वरेण ईश्वरं प्रार्थयन्त च ‘हे भगवन्! रक्ष अस्मान् रक्ष’ इति।

असम्भवं कार्यं कथं कर्तुं शक्यते इति नायकः उक्तवान्?

उत्तरम्नायकः उक्तवान् यत् वयम् आत्मविश्वासबलेन इदम् असम्भवम् अपि कार्यं सम्भूय अवश्यं साधयितुं शक्नुमः, तेन अस्माकं लक्ष्यप्राप्तिः प्राणरक्षा च अपि भविष्यति।

निर्जने वने तण्डुलकणान् दृष्ट्वा चित्रग्रीवः किं निरूपयति?

उत्तरम्चित्रग्रीवः निरूपयति यत् कुतः अत्र निर्जने वने तण्डुलकणानां सम्भवः, तत् निरूप्यताम्। कश्चित् व्याधः अत्र भवेत्, अतः सर्वथा अविचारितं कर्म न कर्तव्यम्।

किं नीतिवचनं प्रसिद्धम्?

उत्तरम्“अल्पानामपि वस्तूनां संहतिः कार्यसाधिका” इति नीतिवचनं प्रसिद्धम् — अर्थात् छोटी-छोटी वस्तुओं का संगठन भी कार्य सिद्ध करने में समर्थ होता है।

व्याधात् रक्षां प्राप्तुं चित्रग्रीवः कम् आदेशं दत्तवान्?

उत्तरम्चित्रग्रीवः आदेशं दत्तवान् यत् सर्वैः कपोतैः एकचित्तीभूय जालम् आदाय उड्डीयताम्।

हिरण्यकः किमर्थं तूष्णीं स्थितः?

उत्तरम्हिरण्यकः कपोतानाम् अवपातभयात् चकितः सन् तूष्णीं स्थितः।

पुलकितः हिरण्यकः चित्रग्रीवं कथं प्रशंसति?

उत्तरम्हिरण्यकः अब्रवीत् — “साधु मित्र! साधु। अनेन आश्रितवात्सल्येन त्वं त्रैलोक्यस्यापि स्वामित्वं प्राप्तुं योग्यः असि।”

कपोताः कथम् आत्मरक्षणं कृतवन्तः?

उत्तरम्कपोताः चित्रग्रीवस्य नेतृत्वे एकचित्तीभूय जालम् आदाय एकसाथ उड्डीय व्याधात् दूरं गताः, तथा हिरण्यकमूषकेण दन्तबलेन पाशान् छित्त्वा पूर्णतया मुक्ताः अभवन्।

नायकस्य प्रेरकवचनैः सर्वेऽपि किम् अकुर्वन्?

उत्तरम्नायकस्य प्रेरकवचनैः उत्साहिताः सर्वेऽपि भयं शोकं सन्देहं च विहाय सेतुनिर्माणकार्ये संलग्नाः जाताः, तथा भगीरथप्रयत्नैः सेतुनिर्माणं कृत्वा स्वप्राणान् अन्येषां च प्राणान् संरक्षितवन्तः।

वाक्यानि पठित्वा ल्यप्-प्रत्ययान्तेषु परिवर्तयत

उदाहरणम्: छात्रः कक्षां प्रविशति। संस्कृतं पठति। → छात्रः कक्षां प्रविश्य संस्कृतं पठति।
ख. भक्तः मन्दिरम् आगच्छति। पूजां करोति।भक्तः मन्दिरम् आगत्य पूजां करोति।
ग. माता भोजनं निर्माति। पुत्राय ददाति।माता भोजनं निर्माय पुत्राय ददाति।
घ. सुरेशः प्रातः उत्तिष्ठति। देवं नमति।सुरेशः प्रातः उत्थाय देवं नमति।
ङ. रमा पुस्तकं स्वीकरोति। विद्यालयं गच्छति।रमा पुस्तकं स्वीकृत्य विद्यालयं गच्छति।
च. अहं गृहम् आगच्छामि। भोजनं करोमि।अहं गृहम् आगत्य भोजनं करोमि।
छ. तण्डुलकणान् विकिरति। जालं विस्तारयति।तण्डुलकणान् विकीर्य जालं विस्तारयति।
ज. व्याधः तण्डुलकणान् अवलोकते। भूमौ अवतरति।व्याधः तण्डुलकणान् अवलोक्य भूमौ अवतरति।

उपसर्गयोजनेन क्त्वा-स्थाने ल्यप्-प्रत्ययस्य प्रयोगं कृत्वा पदानि परिवर्तयत

उपसर्ग-पेटी: सम्, आ, उप, उत्, वि, प्र  |  उदाहरणम्: छात्रः गृहं गत्वा भोजनं करोति। → छात्रः गृहम् आगत्य (आ+गम्+ल्यप्) भोजनं करोति।
ख. माता वस्त्राणि क्षालयित्वा पचति।माता वस्त्राणि प्रक्षाल्य (प्र+क्षालि+ल्यप्) पचति।
ग. शिक्षकः श्लोकं लिखित्वा पाठयति।शिक्षकः श्लोकं विलिख्य (वि+लिख्+ल्यप्) पाठयति।
घ. रमा स्थित्वा गीतं गायति।रमा उत्थाय (उत्+स्था+ल्यप्) गीतं गायति।
ङ. शिष्यः सर्वदा गुरुं नत्वा पठति।शिष्यः सर्वदा गुरुं प्रणम्य (प्र+नम्+ल्यप्) पठति।
च. लेखकः आलोचनं कृत्वा लिखति।लेखकः आलोचनम् उपकृत्य (उप+कृ+ल्यप्) लिखति।

पाठे प्रयुक्तेन उपयुक्तपदेन रिक्तस्थानं पूरयत

(क) सर्वैः एकचित्तीभूय जालम् उड्डीयताम्।
(ख) जालापहारकान् तान् अवलोक्य पश्चाद् अधावत्।
(ग) अस्माकं मित्रं हिरण्यकः नाम मूषकराजः गण्डकीतीरे चित्रवने निवसति।
(घ) हिरण्यकः कपोतानाम् अवपातभयात् चकितस्तूष्णीं स्थितः।
(ङ) यतोहि विपत्काले विस्मयः एव कापुरुषलक्षणम्।

पाठे प्रयुक्तेन ल्यप्-प्रत्ययान्तपदेन सह उपयुक्तं पदं योजयत

विकीर्यतण्डुलकणान्
विस्तीर्यजालम्
अवतीर्यभूमौ
अवलोक्यजालापहारकान्
एकचित्तीभूयउड्डीयताम्
प्रत्यभिज्ञायतद्वचनम्

समासयुक्तपदेन रिक्तस्थानं पूरयत

गण्डक्याः तीरम् = गण्डकीतीरम्  | तस्मिन् = गण्डकीतीरे
तण्डुलानां कणाः = तण्डुलकणाः  | तान् = तण्डुलकणान्
जालस्य अपहारकाः = जालापहारकाः  | तान् = जालापहारकान्
अवपातात् भयम् = अवपातभयम्  | तस्मात् = अवपातभयात्
कापुरुषाणां लक्षणम् = कापुरुषलक्षणम्  | तस्मिन् = कापुरुषलक्षणे

सार्थकपदं ज्ञात्वा सन्धिविच्छेदं कुरुत

इत्याकर्ण्य = इति + आकर्ण्य
चित्रग्रीवोऽवदत् = चित्रग्रीवः + अवदत्
बालकोऽत्र = बालकः + अत्र
धैर्यमथाभ्युदये = धैर्यम् + अथ + अभ्युदये
भोजनेऽप्यप्रवर्तनम् = भोजने + अपि + अप्रवर्तनम्
नमस्ते = नमः + ते
उपायश्चिन्तनीयः = उपायः + चिन्तनीयः
व्याधस्तत्र = व्याधः + तत्र
हिरण्यकोऽप्याह = हिरण्यकः + अपि + आह
मूषकराजो गण्डकीतीरे = मूषकराजः + गण्डकीतीरे
अतस्त्वाम् = अतः + त्वाम्
कश्चित् = कः + चित्
P

परियोजनाकार्यम्

क्रियापदानां प्रयोगेण वाक्यरचना (उदाहरणम्: तिरस्कुर्वन्ति – दुर्जनाः सज्जनं तिरस्कुर्वन्ति)

प्रतिनिधि-उत्तराणि क्रियताम् – अत्र सत्वरं कार्यं क्रियताम्।
निवसति – सः ग्रामे निवसति।
आह – अध्यापकः छात्रान् आह “पठत इति”।
छेत्स्यति – कृषकः वृक्षं छेत्स्यति।
सम्भाषसे – त्वं मया सह किं न सम्भाषसे?
अब्रवीत् – माता पुत्रम् अब्रवीत्।
उपसर्पति – बालकः मातुः समीपम् उपसर्पति।
युज्यते – सत्कार्ये सदैव सफलता युज्यते।

अनया कथया वयं स्वजीवने कां शिक्षां स्वीकर्तुं शक्नुमः?

चर्चा-बिन्दवःइयं कथा शिक्षयति यत् संकटकाले धैर्यं न त्यजनीयम्; एकता व संगठनं दुर्बलानाम् अपि रक्षां करोति; नायकस्य कर्तव्यं भवति यत् सः स्वयं पूर्वं अनुयायिनां हितं चिन्तयति; तथा विचारं विना कर्म कदापि न कर्तव्यम्। कक्षायां छात्राः स्वजीवनस्य उदाहरणैः (क्रीडादलः, सामूहिक-कार्यम् इत्यादि) एतत् सम्बद्ध्य परिचर्चां कुर्युः।
व्याकरणम्

अत्र इदम् अवधेयम्

ल्यप्-प्रत्ययः

यत्र एकस्याः क्रियायाः समाप्तेः अनन्तरम् उत्तरक्रिया भवति, तत्र पूर्वकालिके क्रियाव्यवहारे धातोः क्त्वा-प्रत्ययः भवति। तत्रैव यदि धातोः पूर्वं किमपि उपसर्गादिपदं भवति, तर्हि क्त्वा-प्रत्ययस्थाने ल्यप् भवति। ल्यप्-प्रत्यये केवलं ‘य्’ मात्रम् अवशिष्यते। क्त्वा-ल्यप्-प्रत्ययान्तानि पदानि अव्ययानि भवन्ति।

तण्डुलकणान् अवलोक्य (अव + लोक् + ल्यप्) कपोतान् प्रति आह।
धैर्यम् अवलम्ब्य (अव + लम्ब् + ल्यप्) प्रतीकारः चिन्त्यताम्।

लट्-लकारक्रियाप्रकृति-प्रत्ययविभागःल्यबन्तरूपम्विवरणार्थः
आगच्छतिआ+गम्+ल्यप्आगत्यआगमनं कृत्वा
आनयतिआ+नी+ल्यप्आनीयआनयनं कृत्वा
उत्तिष्ठतिउत्+स्था+ल्यप्उत्थायउत्थानं कृत्वा
प्रणमतिप्र+नम्+ल्यप्प्रणम्यप्रणामं कृत्वा
उपकरोतिउप+कृ+ल्यप्उपकृत्यउपकारं कृत्वा
निर्दिशतिनिर्+दिश्+ल्यप्निर्दिश्यनिर्देशं कृत्वा
निश्चिनोतिनिस्+चि+ल्यप्निश्चित्यनिश्चयं कृत्वा
विस्मरतिवि+स्मृ+ल्यप्विस्मृत्यविस्मरणं कृत्वा
परिष्करोतिपरि+कृ+ल्यप्परिष्कृत्यपरिष्कारं कृत्वा
आरभतेआ+रभ्+ल्यप्आरभ्यआरम्भं कृत्वा
स्वीकरोतिस्वी+कृ+ल्यप्स्वीकृत्यस्वीकारं कृत्वा
विलिखतिवि+लिख्+ल्यप्विलिख्यलेखनं कृत्वा
प्रक्षालयतिप्र+क्षालि+ल्यप्प्रक्षाल्यप्रक्षालनं कृत्वा
अपकरोतिअप+कृ+ल्यप्अपकृत्यअपकारं कृत्वा
अवलोकतेअव+लोक्+ल्यप्अवलोक्यअवलोकनं कृत्वा
आशङ्कतेआ+शकि+ल्यप्आशङ्क्यआशङ्कां कृत्वा
विकिरतिवि+कॄ+ल्यप्विकीर्यविकिरणं कृत्वा
अवतरतिअव+तॄ+ल्यप्अवतीर्यअवतरणं कृत्वा
विस्तृणातिवि+स्तॄ+ल्यप्विस्तीर्यविस्तरणं कृत्वा
अवलम्बतेअव+लम्ब्+ल्यप्अवलम्ब्यअवलम्बनं कृत्वा
निर्मातिनिर्+मा+ल्यप्निर्मायनिर्माणं कृत्वा

विसर्गसन्धिः

  • यत्र विसर्गात् परं चकारः अथवा छकारः भवति, तत्र विसर्गस्य स्थाने शकारः भवति।
    कः+चित् = कश्चित्। प्रतीकारः+चिन्त्यताम् = प्रतीकारश्चिन्त्यताम्। देवदत्तः+छलेन = देवदत्तश्छलेन।
  • यत्र विसर्गात् परं तकारः अथवा थकारः भवति, तत्र विसर्गस्य स्थाने सकारः भवति।
    चकितः+तूष्णीम् = चकितस्तूष्णीम्। नीतिः+तावत् = नीतिस्तावत्।
  • यदि विसर्गात् पूर्वम् अकारः, परं च वर्गस्य तृतीय-चतुर्थ-पञ्चमवर्णः तथा ह्, य्, व्, र्, ल् इत्येतेषु कोऽपि वर्णः भवति, तर्हि अकारस्य विसर्गस्य च स्थाने ओकारः भवति।
    हिरण्यकः+नाम = हिरण्यको नाम। ततः+हिरण्यकः = ततो हिरण्यकः। व्याधः+निवृत्तः = व्याधो निवृत्तः।
  • यदि विसर्गात् पूर्वं पश्चात् च अकारः भवति, तत्र पूर्वतन-अकारस्य स्थाने तथा विसर्गस्य स्थाने ओकारः भवति।
    कुतः+अत्र = कुतोऽत्र। हितः+अपि = हितोऽपि। सः+अस्माकम् = सोऽस्माकम्।
ग्रन्थपरिचयः: प्रस्तुतः पाठः हितोपदेशग्रन्थस्य ‘मित्रलाभ’ प्रकरणात् स्वीकृतः। अस्य ग्रन्थस्य लेखकः पण्डितः नारायणशर्मा अस्ति। अस्मिन् ग्रन्थे चत्वारि प्रकरणानि सन्ति — (१) मित्रलाभः (२) सुहृद्भेदः (३) विग्रहः (४) सन्धिः।
अल्पानामपि वस्तूनां संहतिः कार्यसाधिका · दीपकम् कक्षा ८ · द्वितीयः पाठः — NCERT आधारित समाधानम्

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!