वर्णोच्चारण-शिक्षा २
आभ्यन्तर-प्रयत्नः · पञ्चविधप्रयत्नाः · सम्पूर्ण-प्रश्नोत्तराणि
संक्षेपः — आभ्यन्तर-प्रयत्नः
वर्णोत्पत्त्यर्थं त्रीणि तत्त्वानि आवश्यकानि — (क) स्थानम्, (ख) करणम्, (ग) आभ्यन्तर-प्रयत्नः। आस्यस्य अभ्यन्तरे करणं येन प्रयत्नेन स्थानं स्पृशति वा स्थानस्य समीपं याति, सः आभ्यन्तर-प्रयत्नः। एषः पञ्चविधः — (१) स्पृष्ट (२) ईषत्-स्पृष्ट (३) ईषद्-विवृत (४) विवृत (५) संवृत।
आस्यस्य अभ्यन्तरे षट् वर्ण-उच्चारण-स्थानानि
क्रमः (अन्तः → बहिः): कण्ठः → तालु → मूर्धा → दन्तः → ओष्ठः; तथा नासिका (अनुनासिक-वर्णानाम्)।
करणस्य स्थानेन सम्पर्कः → तत्फलम्
स्मरणीयम्: केवलं कण्ठ-स्थाने एव संवृत-प्रयत्नः भवति, तदपि केवलम् अ-कारस्य (ह्रस्वस्य) उच्चारणार्थम्।
| स्थानम् | करणम् | वर्णाः |
|---|---|---|
| १ कण्ठः | जिह्वामूलम् / स्वस्थानम् | अ आ · क ख ग घ ङ · ह · ः (विसर्गः) |
| २ तालु | जिह्वा-मध्यः | इ ई · च छ ज झ ञ · य · श |
| ३ मूर्धा | जिह्वा-उपाग्रः | ऋ · ट ठ ड ढ ण · र · ष |
| ४ दन्तः | जिह्वा-अग्रः | ऌ · त थ द ध न · ल · स |
| ५ ओष्ठः | ओष्ठः / स्वस्थानम् | उ ऊ · प फ ब भ म |
| ६ नासिका | नासिका / स्वस्थानम् | ङ ञ ण न म · ं (अनुस्वारः) |
अभ्यासाद् जायते सिद्धिः
पाठ्यपुस्तक-अभ्यासः — प्रश्न १ से ६ तक
- वर्णानाम् उत्पत्त्यर्थं कति आवश्यकानि तत्त्वानि भवन्ति? — त्रीणि
- कति स्थानानि सन्ति? — षट् (६)
- आभ्यन्तर-प्रयत्नः कतिविधः? — पञ्चविधः
- करणं यदा स्थानं स्पष्टरूपेण स्पृशति, तदा करणस्य कः प्रयत्नः भवति? — स्पृष्ट-प्रयत्नः
- अवर्णस्य कति उपभेदाः सन्ति? — त्रयः (अ, आ, अ३)
- संवृत-प्रयत्नः कुत्र भवति? — कण्ठे (कण्ठ-स्थाने)
- आभ्यन्तर-प्रयत्नः कः उच्यते?
आस्यस्य अभ्यन्तरे करणं येन प्रयत्नेन स्थानं स्पृशति, स्थानस्य समीपं वा याति, सः प्रयत्नः ‘आभ्यन्तर-प्रयत्नः’ उच्यते।
- ईषत्स्पृष्ट-प्रयत्नः कदा भवति?
करणं यदा स्थानं ‘स्वल्पम् एव स्पृशति’, तदा करणस्य ‘ईषत्-स्पृष्ट-प्रयत्नः’ भवति; तेन स्थाने अन्तःस्थ-व्यञ्जनानि (य र ल व) जायन्ते।
- करणस्य विवृत-प्रयत्नेन के स्वराः उच्चार्यन्ते?
करणस्य विवृत-प्रयत्नेन (अ-कारं विहाय) अन्ये सर्वे स्वराः उच्चार्यन्ते।
- आभ्यन्तर-प्रयत्नाः कुत्र दृश्यन्ते?
कण्ठ्य-तालव्य-मूर्धन्य-दन्त्य-ओष्ठ्येषु पञ्चप्रकारेषु वर्णेषु — स्थान-करणयोः मध्ये आभ्यन्तर-प्रयत्नाः दृश्यन्ते।
- आभ्यन्तर-प्रयत्ने स्वरेषु विशिष्टः स्वरः कः अस्ति?
स्वरेषु ‘अ-कारः’ (ह्रस्वः) विशिष्टः स्वरः अस्ति; यः एकः एव संवृत-प्रयत्नेन उच्चार्यते, अन्ये सर्वे स्वराः तु विवृत-प्रयत्नेन।
| क-स्तम्भः (प्रयत्नः) | ख-स्तम्भः (वर्णः) | आधारः |
|---|---|---|
| (क) विवृत-प्रयत्नः | (३) ॠ | स्वरः → विवृत |
| (ख) स्पृष्ट-प्रयत्नः | (५) ध् | स्पर्शः → स्पृष्ट |
| (ग) ईषत्स्पृष्ट-प्रयत्नः | (१) व् | अन्तःस्थः → ईषत्-स्पृष्ट |
| (घ) ईषद्विवृत-प्रयत्नः | (२) श् | ऊष्मा → ईषद्-विवृत |
| (ङ) संवृत-प्रयत्नः | (४) अ | अ-कारः → संवृत |
| वाक्यम् | आम् / न | कारणम् |
|---|---|---|
| (क) ‘ई’ वर्णः सन्ध्यक्षरम् अस्ति। | न | ई समानाक्षरः (शुद्धस्वरः) अस्ति |
| (ख) ‘ऐ’ वर्णः सन्ध्यक्षरम् अस्ति। | आम् | ऐ सन्ध्यक्षरः (ए ऐ ओ औ) अस्ति |
| (ग) ‘झ’ वर्णः स्पर्शः अस्ति। | आम् | झ वर्गीयः (तालव्यः) स्पर्शः |
| (घ) ‘र’ वर्णः स्पर्शेषु परिगण्यते। | न | र अन्तःस्थः, न तु स्पर्शः |
| (ङ) ‘य, र, ल, व’ वर्णाः ऊष्माणः सन्ति। | न | एते अन्तःस्थाः; ऊष्माणः तु श ष स ह |
| वाक्यम् (रेखाङ्कितम्) | प्रश्नः |
|---|---|
| (क) स्वराः स्वतन्त्रवर्णाः सन्ति। | के स्वतन्त्रवर्णाः सन्ति? |
| (ख) व्यञ्जनानि अर्धमात्रिकाणि भवन्ति। | कानि अर्धमात्रिकाणि भवन्ति? |
| (ग) स्वराणां द्वौ भेदौ भवतः। | स्वराणां कति भेदौ भवतः? |
| (घ) ह्रस्वस्य उपभेदाः न भवन्ति। | कस्य उपभेदाः न भवन्ति? |
| (ङ) व्यञ्जनानां चत्वारः भेदाः भवन्ति। | व्यञ्जनानां कति भेदाः भवन्ति? |
| वर्ण-वर्गः | वर्णाः |
|---|---|
| (क) एकस्थानि-वर्णाः (समानाक्षराणि) | अ आ इ ई उ ऊ ऋ ॠ ऌ |
| (ख) स्पर्श-व्यञ्जनानि (वर्गीयाः) | क ख ग घ ङ · च छ ज झ ञ · ट ठ ड ढ ण · त थ द ध न · प फ ब भ म |
| (ग) अयोगवाह-व्यञ्जनानि | अं (अनुस्वारः), अः (विसर्गः) |
| (घ) ऊष्म-व्यञ्जनानि | श ष स ह |
| (ङ) द्विस्थानि-वर्णाः (सन्ध्यक्षराणि) | ए ऐ ओ औ |
स्वाध्यायान्मा प्रमद:
पाणिनीय-शिक्षा-सूत्राणि · वर्णमाला-वर्गीकरणम् · शब्दार्थः
| सूत्रम् | अर्थः |
|---|---|
| प्रयत्नोऽपि द्विविधः। | (उच्चारणार्थं) प्रयत्नः द्विप्रकारकः भवति। |
| आभ्यन्तरो बाह्यश्च। | आभ्यन्तर-प्रयत्नः, बाह्य-प्रयत्नः च — एतौ द्वौ प्रकारौ। |
| स्वस्थाने आभ्यन्तरस्तावत्। | वर्णस्य स्वकीयं स्थानं प्रति करणस्य यः प्रयत्नः, सः आभ्यन्तर-प्रयत्नः। |
| स्पृष्ट-करणाः स्पर्शाः। | स्पर्शानाम् उच्चारणे करणं स्पृष्ट-प्रयत्नेन स्थानं (स्पष्टरूपेण) स्पृशति। |
| ईषत्स्पृष्ट-करणा अन्तस्थाः। | अन्तःस्थानाम् उच्चारणे करणम् ईषत्-स्पृष्ट-प्रयत्नेन स्थानं (स्वल्पं) स्पृशति। |
| ईषद्विवृत-करणा ऊष्माणः। | ऊष्मणाम् उच्चारणे करणम् ईषद्-विवृत-प्रयत्नेन स्थानं प्रति (समीपं) याति। |
| विवृत-करणाः स्वराः। | स्वराणाम् उच्चारणे करणं विवृत-प्रयत्नेन स्थानं प्रति (किञ्चित्-दूर-पर्यन्तं) याति। |
| संवृतस्त्वकारः। | अ-कारस्य (ह्रस्वस्य) उच्चारणे तु (अपवादरूपेण) करणं संवृत-प्रयत्नेन संकुचितं भवति। |
| इत्येषोऽन्तःप्रयत्नः। | अत्र पर्यन्तम् एषः उच्चारणस्य आभ्यन्तर-प्रयत्नः चर्चितः। |
| वर्गः | उपवर्गः | संख्या | आभ्यन्तर-प्रयत्नः |
|---|---|---|---|
| स्वराः | अ-कारः (ह्रस्वः) | ०१ | संवृत-प्रयत्नः |
| शेष-स्वराः | २१ | विवृत-प्रयत्नः | |
| व्यञ्जनानि | स्पर्शाः (वर्गीयाः) | २५ | स्पृष्ट-प्रयत्नः |
| अन्तःस्थाः (य र ल व) | ०४ | ईषत्-स्पृष्ट-प्रयत्नः | |
| ऊष्माणः (श ष स ह) | ०४ | ईषद्-विवृत-प्रयत्नः | |
| अयोगवाहौ (ं ः) | ०२ | ईषद्-विवृत-प्रयत्नः |
स्वराणां द्वौ भेदौ: समानाक्षर-स्वरः (एक-स्थानी) · सन्ध्यक्षर-स्वरः (द्वि-स्थानी)। व्यञ्जनानां चत्वारो भेदाः: स्पर्श · अन्तःस्थ · ऊष्म · अयोगवाह।
| शब्दः | अर्थः | हिन्दी | English |
|---|---|---|---|
| प्रयत्नः | उच्चारणे प्रयुज्यमानं बलम् | उच्चारण में प्रयुक्त बल/दबाव | Effort in speech |
| अभ्यन्तरे | अन्तः | अन्दर | Inside |
| आभ्यन्तरम् | अन्तःस्थितम् | अन्दर स्थित | Internal |
| स्पृष्टः | स्पर्शं कृतः | स्पर्श किया हुआ | Touched |
| ईषत् | अल्पम् | थोड़ा | Slightly |
| ईषत्-स्पृष्टः | अल्पं स्पर्शं कृतः | थोड़ा स्पर्श किया | Slightly touched |
| विवृतः | उद्घाटितः | खुला हुआ | Opened |
| विवरः | छिद्रः / अन्तरालः | अन्तराल | Opening / Gap |
| ईषद्-विवृतः | अल्पम् उद्घाटितः | थोड़ा खुला हुआ | Slightly opened |
| संवृतः | अविस्तृतः | सिकुड़ा हुआ | Contracted |
| संकोचः | संकोचनम् | सिकुड़ना | Compress |
| संकुचितः | संकीर्णः / संकोचं कृतः | सिकुड़ा गया | Constricted / Narrow |
