सप्तमः पाठः – “मञ्जुलमञ्जुभाषा सुन्दरसुरभाषा” (Mañjulamañjubhāṣā Sundarasurabhāṣā) Class 8th Sanskrit (Deepakam) NCERT Solution

मञ्जुलमञ्जूषा सुन्दरसुरभाषा — सम्पूर्ण समाधानम्
दीपकम् · कक्षा ८ · सप्तमः पाठः

मञ्जुलमञ्जूषा सुन्दरसुरभाषा

सम्पूर्ण समाधानम् — Full Solutions

संस्कृत-दिवस के अवसर पर दो सखियों के संवाद से आरम्भ होकर, यह पाठ संस्कृत भाषा की महिमा में रचित चार सुन्दर पद्यों के माध्यम से इसकी प्राचीनता, समृद्धि व गौरव का वर्णन करता है। यहाँ संवाद, पद्य-व्याख्या, शब्दार्थ, समास-व्याकरण, संस्कृत-प्रशस्तियाँ तथा समग्र प्रश्नोत्तर प्रस्तुत हैं।

पाठ्यांश

पाठ्यांश (संवाद) — सखी-द्वय संवादः

img-comic
चित्रम् : दो सखियाँ संस्कृत-दिवस के कार्यक्रमों की चर्चा करती हुई — मूल पाठ्यपुस्तकतः

प्र.प्रथमा भगिनी श्रावणी-पूर्णिमायाः विषये किं पृष्टवती, द्वितीया किम् उत्तरं ददौ?

उत्तरम्प्रथमा अपृच्छत् — “भगिनि! अद्य श्रावणी पूर्णिमा अस्ति। वदतु एतस्याः किं वैशिष्ट्यम्?” द्वितीया उत्तरं ददौ — “अहं जानामि, अद्य संस्कृतदिवसः अस्ति। वयम् एतम् आसप्ताहम् आचरामः।”

प्र.विद्यालये संस्कृतदिवसम् अधिकृत्य कीदृशी योजना कृता?

उत्तरम्ओमिता अवदत् — “आम् ओमिते! मम विद्यालये अनेकेषां कार्यक्रमाणां योजना रचिता।” इदं श्रुत्वा सखी अपि प्रसन्ना अभवत् व स्वविद्यालयस्य कार्यक्रमविषये उत्सुकतां प्रकटयति।

प्र.गीतगायनप्रतियोगितायां का भागं ग्रहीष्यति?

उत्तरम्ओमिता अवदत् — “आम् ओमिते! अहं तु गीतगायनप्रतियोगितायां भागं ग्रहीष्यामि।”

प्र.सख्यौ परस्परं कां प्रतिज्ञां कुरुतः?

उत्तरम्प्रथमा वदति — “भगिनि! अहमपि आगन्तुम् इच्छामि।” द्वितीया उत्तरं ददाति — “अवश्यम्। अहं भवत्याः कृते अधुना एव निमन्त्रणपत्रं यच्छामि।” तदनन्तरं प्रथमा पृच्छति — “भगिनि! तत्र भवती किं गीतं गास्यति? कृपया मामपि श्रावयतु।” द्वितीया उत्तरं ददाति — “अस्तु अहं गायामि, भवती अनुगायतु।”
पद्यानि

संस्कृतभाषायाः स्तुतौ चत्वारि पद्यानि — पदच्छेद, अन्वय, भावार्थ सहित

img-munis
चित्रम् : मुनिगण संस्कृतभाषायाः विकासे लीन — मूल पाठ्यपुस्तकतः
पद्यम् १
मुनिवरविकसितकविवरविलसित-मञ्जुलमञ्जूषा, सुन्दरसुरभाषा।
अयि मातस्तव पोषणक्षमता मम वचनातीता, सुन्दरसुरभाषा॥

पदच्छेदः

मुनिवर-विकसित-कविवर-विलसित-मञ्जुल-मञ्जूषा सुन्दरसुरभाषा। अयि मातः! तव पोषणक्षमता मम वचनातीता सुन्दरसुरभाषा।

अन्वयः

(त्वं) मुनिवरविकसितकविवरविलसितमञ्जुलमञ्जूषा सुन्दरसुरभाषा (असि)। अयि मातः! तव पोषणक्षमता मम वचनातीता अस्ति।

भावार्थः

संस्कृतभाषा अत्यन्त सुन्दर भाषा है और देवभाषा के रूप में प्रसिद्ध है। मुनियों ने इस संस्कृतभाषा का विकास किया है। यह भाषा अधिकांश भारतीय भाषाओं तथा विश्व की अनेक भाषाओं की जननी (स्रोत-भाषा) अथवा पूरक-भाषा है। अनेक कवियों ने काव्य-रचना द्वारा इसके सौन्दर्य को और बढ़ाया है। कोमल शब्दों से परिपूर्ण यह मानो एक ज्ञान की पेटी है। संस्कृतभाषा अपने शब्द-भण्डार से अन्य भाषाओं को भी ज्ञान-विज्ञान से पुष्ट करती है। संस्कृतभाषा का गौरव वर्णन से परे है।

पद्यम् २
वेदव्यास-वाल्मीकि-मुनीनां कालिदास-बाणादिकवीनाम्।
पौराणिक-सामान्य-जनानां जीवनस्य आशा, सुन्दरसुरभाषा॥

पदच्छेदः

वेदव्यास-वाल्मीकि-मुनीनाम् कालिदास-बाणादिकवीनाम् पौराणिक-सामान्य-जनानाम् जीवनस्य आशा सुन्दरसुरभाषा।

अन्वयः

(त्वं) वेदव्यासवाल्मीकिमुनीनां कालिदास-बाणादिकवीनां पौराणिक-सामान्यजनानां जीवनस्य आशा (असि)। त्वं सुन्दरसुरभाषा (असि)।

भावार्थः

संस्कृतभाषा अत्यन्त रमणीय भाषा है। वाल्मीकि, वेदव्यास आदि मुनियों ने रामायण, महाभारत, पुराण आदि ग्रन्थों की रचना की। कालिदास, बाणभट्ट जैसे विशिष्ट कवियों ने भी उपादेय (उपयोगी) काव्य रचे। प्राचीन काल से लेकर आज तक सामान्य जनों का जीवन संस्कृतभाषा में रचित काव्यों से प्रभावित रहा है। संस्कृतभाषा अनेक लक्ष्यों को प्राप्त कराने वाली है। अतः संस्कृतभाषा सुन्दर भाषा है।

img-sages-top
चित्रम् : वेदव्यास (महाभारत के रचयिता) व एक युवा कवि — मूल पाठ्यपुस्तकतः
img-sages-bottom
चित्रम् : वाल्मीकि (रामायण के रचयिता) व अन्य विद्वान् कवि — मूल पाठ्यपुस्तकतः
पद्यम् ३
श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे।
गति-मति-प्रेरक-काव्यविशारदे तव संस्कृतिरेषा, सुन्दरसुरभाषा॥

पदच्छेदः

श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे गति-मति-प्रेरककाव्यविशारदे तव संस्कृतिः एषा सुन्दरसुरभाषा।

अन्वयः

हे! श्रुतिसुखनिनदे! सकलप्रमोदे! स्मृतिहितवरदे! सरसविनोदे! गति-मति-प्रेरक-काव्यविशारदे! तव एषा संस्कृतिः (अस्ति)। (त्वं) सुन्दरसुरभाषा (असि)।

भावार्थः

वस्तुतः यह अत्यन्त रमणीय, दिव्यता प्रदान करने वाली संस्कृतभाषा संस्कृति की जननी के समान है। संस्कृतभाषा का ध्वनि-श्रवण करने मात्र से सुख की वृद्धि होती है, सभी लोग आनन्दित होते हैं। संस्कृतभाषा वर के रूप में संस्कारजन्य ज्ञान प्रदान करती है, तथा सरस विनोद-भाव भी प्रकट करती है। यह मानव-जीवन में उत्तम गति व बुद्धि प्रदान करती है। काव्यशास्त्र से परिपूर्ण संस्कृतभाषा हमारी संस्कृति की रक्षा करती है और उसका प्रसार भी करती है।

img-nalanda
चित्रम् : नालन्दा महाविहार के भग्नावशेष — प्राचीन भारत में संस्कृत-शिक्षा का महान् केन्द्र — मूल पाठ्यपुस्तकतः
पद्यम् ४
नवरस-रुचिरालङ्कृति-धारा वेदविषय-वेदान्त-विचारा।
वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायां, सुन्दरसुरभाषा॥

पदच्छेदः

नवरस-रुचिरा अलङ्कृति-धारा वेदविषय-वेदान्त-विचारा। वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायाम् सुन्दरसुरभाषा।

अन्वयः

नवरस-रुचिरा अलङ्कृतिधारा वेदविषयवेदान्तविचारा वैद्यव्योमशास्त्रादिविहारा धरायां सुन्दरसुरभाषा विजयते।

भावार्थः

संस्कृत के काव्यशास्त्रों में शृंगार, हास्य, करुण, रौद्र, वीर, भयानक, बीभत्स, अद्भुत, शान्त — ये नौ रुचिकर रस हैं। इसमें शब्द-अर्थ से परिपूर्ण विविध अलंकार शोभा देते हैं। वेद, उपनिषद्, वेदान्त, पुराण आदि के विचार लोगों को प्रेरित करते हैं। चिकित्साविज्ञान (आयुर्वेद), खगोलशास्त्र (ज्योतिष) आदि के साथ संस्कृतभाषा सम्पूर्ण पृथ्वी पर विचरण करती है। इस प्रकार संस्कृतभाषा सर्वत्र विजयी होती है।

शब्दार्थाः

वयं शब्दार्थान् जानीमः

शब्दःसंस्कृत अर्थःहिन्दीEnglish
विकसिताविस्तारिताविकसित की गईProgressively developed
विलसितारञ्जिताआनन्द देने वालीThat which gives joy
मञ्जुलामनोहरामन को हरने वालीLovely / Charming
मञ्जूषापेटिकापेटीBox / Encasement
पोषणक्षमतापालनशक्तिःपोषण की क्षमताNurturing capacity
मेमममेरेMine
अतीताअतिक्रान्तापार होBeyond
वृन्दानाम्समूहानाम्समूहों कीOf groups
नवम्नूतनम्नईNew
वचनातीतावर्णनातीतावाणी से परेBeyond words
भूयिष्ठानाम्अधिकतराणाम्अधिकांशMostly
श्रुतिसुखनिनदे!श्रवणसुखध्वनिदात्रि!कर्णप्रिय ध्वनि देने वाली!Sound pleasant to listen
सकलप्रमोदे!सर्वेभ्यः आनन्दमयि!सभी को आनन्द देने वालीThat which gives pleasure to all
सरसविनोदेसरसविनोदशीलेमधुर विनोद करने वालीThat which creates pleasant humour
काव्यविशारदे!काव्यपारङ्गतेकाव्य करने में पारंगतProficient in literature
रुचिरारुचिकराआनन्द प्रदान करने वालीThat which gives happiness
अलङ्कृतिधाराअलङ्काराणाम् आधात्रीअलंकारों को धारण करने वालीWell ornamented
व्योमशास्त्रम्अन्तरिक्षशास्त्रम्अन्तरिक्ष विज्ञानAstronomy
धरायाम्पृथिव्याम्धरती परOn earth
अभ्यासः

अभ्यासात् जायते सिद्धिः — सम्पूर्ण उत्तराणि

अधः प्रदत्तानां प्रश्नानां एकपदेन उत्तरं लिखत

क. सुन्दरसुरभाषा कस्य वचनातीता?मम (कवेः)
ख. संस्कृतभाषा कुत्र विजयते?धरायाम्
ग. संस्कृतभाषा कस्य आशा?पौराणिक-सामान्यजनानाम्
घ. संस्कृते कति रसाः सन्ति?नव (९) रसाः
ङ. कस्याः ध्वनिश्रवणेन सुखं वर्धते?संस्कृतभाषायाः

अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत

संस्कृतभाषा केषां जीवनस्य आशा अस्ति?

उत्तरम्संस्कृतभाषा वेदव्यास-वाल्मीकि-मुनीनां, कालिदास-बाणादिकवीनां, तथा पौराणिक-सामान्यजनानां जीवनस्य आशा अस्ति।

केषां विचाराः जनान् अभिप्रेरयन्ति?

उत्तरम्वेद-उपनिषद्-वेदान्त-पुराणादीनां विचाराः जनान् अभिप्रेरयन्ति।

कैः रसैः समृद्धा साहित्यपरम्परा विराजते?

उत्तरम्शृंगार, हास्य, करुण, रौद्र, वीर, भयानक, बीभत्स, अद्भुत, शान्त — इत्येतैः नवसंख्याकैः रसैः समृद्धा साहित्यपरम्परा विराजते।

संस्कृतभाषा केषु शास्त्रेषु विहरति?

उत्तरम्संस्कृतभाषा चिकित्साविज्ञान-खगोलशास्त्रादिषु (वैद्यशास्त्रे, व्योमशास्त्रे) विहरति।

संस्कृतभाषायाः कानि कानि सम्बोधनपदानि अत्र प्रयुक्तानि?

उत्तरम्अत्र ‘अयि मातः’, ‘श्रुतिसुखनिनदे’, ‘सकलप्रमोदे’, ‘स्मृतिहितवरदे’, ‘सरसविनोदे’, ‘गति-मति-प्रेरक-काव्यविशारदे’ इत्यादीनि सम्बोधनपदानि प्रयुक्तानि।

रेखाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत

क. मुनिगणाः संस्कृतभाषायाः विकासं कृतवन्तः।के संस्कृतभाषायाः विकासं कृतवन्तः?
ख. सामान्यजनानां जीवनं काव्यैः प्रभावितम् अस्ति।सामान्यजनानां जीवनं कैः प्रभावितम् अस्ति?
ग. कवयः अपि उपादेयानि काव्यानि रचितवन्तः।के अपि उपादेयानि काव्यानि रचितवन्तः?
घ. संस्कृतभाषा पृथिव्यां विहरति।संस्कृतभाषा कुत्र विहरति?
ङ. संस्कृतभाषा विविधभाषाः परिपोषयति।संस्कृतभाषा काः परिपोषयति?
च. वेद-वेदाङ्गादीनि गभीराणि शास्त्राणि सन्ति।कानि गभीराणि शास्त्राणि सन्ति?

अधः प्रदत्तानां पदानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखत

पदम्विभक्तिःवचनम्
मातः (उदाहरणम्)सम्बोधनम्एकवचनम्
तवषष्ठी विभक्तिःएकवचनम्
मञ्जूषाप्रथमा विभक्तिःएकवचनम्
संस्कृतिःप्रथमा विभक्तिःएकवचनम्
जनानाम्षष्ठी विभक्तिःबहुवचनम्
जीवनस्यषष्ठी विभक्तिःएकवचनम्
धरायाम्सप्तमी विभक्तिःएकवचनम्
शास्त्रेषुसप्तमी विभक्तिःबहुवचनम्

अधोलिखितानां पद्यांशानां यथायोग्यं मेलनं कुरुत

अयि मातस्तव पोषणक्षमतामम वचनातीता, सुन्दरसुरभाषा
वेदव्यास-वाल्मीकि-मुनीनांकालिदासबाणादिकवीनाम्
पौराणिक-सामान्यजनानाम्जीवनस्य आशा, सुन्दरसुरभाषा
श्रुतिसुखनिनदे सकलप्रमोदेस्मृतिहितवरदे सरसविनोदे
वैद्यव्योम-शास्त्रादिविहाराविजयते धरायाम्

उदाहरणानुसारम् अधः प्रदत्तानां पदानाम् एकपदेन अर्थं लिखत (समासः)

उदाहरणम्: देवस्य आलयः = देवालयः
क. सुराणां भाषासुरभाषा
ख. सुन्दरी सुरभाषासुन्दरसुरभाषा
ग. नवरसैः रुचिरानवरसरुचिरा
घ. पोषणस्य क्षमतापोषणक्षमता
ङ. मञ्जुला भाषामञ्जुलभाषा

पेटिकातः पदानि चित्वा रिक्तस्थानानि पूरयत

पद-पेटी: कालिदासबाणादि, आशा, संस्कृतिः, विजयते, मम, वेदविषय, मञ्जुलमञ्जूषा, सकलप्रमोदे
यथा — मुनिवर-विकसित-कविवर-विलसित- मञ्जुलमञ्जूषा सुन्दरसुरभाषा।
(क) अयि मातः तव पोषणक्षमता मम वचनातीता।
(ख) वेदव्यास-वाल्मीकि-मुनीनां कालिदासबाणादि कवीनाम्।
(ग) पौराणिक-सामान्य-जनानां जीवनस्य आशा
(घ) श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे।
(ङ) गति-मति-प्रेरक-काव्य-विशारदे, तव संस्कृतिः एषा सुन्दरसुरभाषा।
(च) नवरस-रुचिरालङ्कृतिधारा वेदविषय-वेदान्तविचारा।
(छ) वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायाम्, सुन्दरसुरभाषा।

अधोलिखितविकल्पेषु प्रसङ्गानुसारम् अर्थं चिनुत (बहुविकल्पीय प्रश्नाः)

(क) “मञ्जुलमञ्जूषा” इत्यस्य अर्थः कः?

(i) कठोरभाषा(ii) शोचनीया भाषा(iii) मनोहररूपेण संकलिता(iv) सामान्यभाषा

उत्तरम्: (iii) मनोहररूपेण संकलिता

(ख) सुन्दरसुरभाषा केषां जीवनस्य आशा उच्यते?

(i) केवलं कवीनाम्(ii) बालकानाम्(iii) पौराणिक-सामान्यजनानाम्(iv) छात्राणाम्

उत्तरम्: (iii) पौराणिक-सामान्यजनानाम्

(ग) सुन्दरसुरभाषा कुत्र विजयते?

(i) आकाशे(ii) जलधौ(iii) धरायाम्(iv) पवने

उत्तरम्: (iii) धरायाम्

(घ) सुन्दरसुरभाषायां किं नास्ति?

(i) शास्त्रज्ञानम्(ii) संस्कृतिः(iii) वेदान्तचिन्तनम्(iv) अशुद्धिः

उत्तरम्: (iv) अशुद्धिः

(ङ) कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति?

(i) पितः(ii) मातः(iii) भ्रातः(iv) दातः

उत्तरम्: (ii) मातः

P

परियोजनाकार्यम्

संस्कृतेन जीवनं कथं समृद्धं भवेत् इति अधिकृत्य ‘सुन्दरसुरभाषा धरायां विजयते’ इति संस्कृतनाटिकया छात्राः जागरूकाः करणीयाः।

दिशानिर्देशःछात्राः छोटे समूहों में मिलकर ‘सुन्दरसुरभाषा धरायां विजयते’ विषय पर एक लघु संस्कृत-नाटिका तैयार करें, जिसमें दिखाया जाए कि संस्कृत भाषा के अध्ययन से जीवन कैसे समृद्ध होता है, और कक्षा में उसका अभिनय करें।

सरलसंस्कृतगीतानां सङ्ग्रहं कुरुत कक्षायां च गायत।

दिशानिर्देशःछात्राः सरल संस्कृत गीतों का संग्रह करें, जैसे — ‘सुरससुबोधा विश्वमनोज्ञा’, ‘मनसा सततं स्मरणीयम्’, ‘मृदपि च चन्दनमस्मिन् देशे’ इत्यादि, और कक्षा में सुमधुर स्वर में गाएँ।

संस्कृतसाहित्ये प्रसिद्धानां कवीनां काव्यानां च सङ्ग्रहः करणीयः।

दिशानिर्देशःछात्राः वाल्मीकि (रामायण), वेदव्यास (महाभारत), कालिदास (अभिज्ञानशाकुन्तलम्, रघुवंशम्), बाणभट्ट (कादम्बरी) आदि प्रसिद्ध संस्कृत कवियों तथा उनकी प्रमुख रचनाओं की सूची बनाकर कक्षा में प्रस्तुत करें।
व्याकरणम्

अत्र इदम् अवधेयम् — समासः

समासः

परस्परसम्बद्धानां सार्थकपदानाम् एकपदीभावः समासः इति कथ्यते। प्रायेण द्वयोः ततोऽधिकानां वा पदानां संक्षिप्तीकरणं नाम समासः। यथा —

नद्याः तीरम् – नदीतीरम्। राज्ञः पुत्रः – राजपुत्रः। सुराणां भाषा – सुरभाषा। पोषणस्य क्षमता – पोषणक्षमता। वचनम् अतीता – वचनातीता। नवसंख्याकाः रसाः – नवरसाः। नवरसैः रुचिरा – नवरसरुचिरा।

समासानां विविधाः प्रभेदाः सन्ति — अव्ययीभावः, तत्पुरुषः, कर्मधारयः, द्विगुः, द्वन्द्वः, बहुव्रीहिः च इति।

  • अव्ययीभावसमासे प्रायः पूर्वम् अव्ययपदस्य प्रयोगः भवति। यथा — रूपस्य योग्यम् — अनुरूपम्।
  • तत्पुरुषसमासे परपदस्य प्राधान्यं भवति। यथा — सुराणां भाषा — सुरभाषा।
  • द्विगुसमासे पूर्वं संख्यावाचकपदस्य व्यवहारः भवति। यथा — पञ्चानां वटानां समाहारः — पञ्चवटी।
  • बहुव्रीहिसमासे अन्यपदस्य प्राधान्यं भवति। यथा — पीतम् अम्बरं यस्य सः — पीताम्बरः (श्रीविष्णुः)।
योग्यताविस्तरः

संस्कृतप्रशस्तयः

img-soldier
चित्रम् : संस्कृतेन विचारेण राष्ट्रं भातु सुसंस्कृतम् — कृषक व सैनिक एकता का प्रतीक — मूल पाठ्यपुस्तकतः
१.मातृभूमिः सदा सेव्या मातृभाषा तथैव च।
भारतं मातृभूमिर्नो मातृभाषा हि संस्कृतम्॥
२.भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा।
विहाय संस्कृतं नास्ति संस्कृतिः संस्कृताश्रिता॥
३.पुरुषाः संस्कृताः सन्तु महिलाः सन्तु संस्कृताः।
संस्कृतेन विचारेण राष्ट्रं भातु सुसंस्कृतम्॥
४.संस्कृतं संस्कृतेर्मूलं ज्ञानविज्ञानवारिधिः।
वेदतत्त्वार्थसञ्जुष्टं लोकालोककरं शिवम्॥
५.यावद् भारतवर्षं स्याद् यावद् विन्ध्यहिमाचलौ।
यावद् गङ्गा च गोदा च तावदेव हि संस्कृतम्॥
ज्ञातव्यम्: ये पाँचों संस्कृत-प्रशस्तियाँ संस्कृत भाषा और भारतीय संस्कृति के अटूट सम्बन्ध को दर्शाती हैं — संस्कृत को मातृभाषा, ज्ञान-विज्ञान का मूल स्रोत, तथा भारतवर्ष के अस्तित्व के साथ सदा जुड़ी हुई भाषा के रूप में वर्णित किया गया है।
मञ्जुलमञ्जूषा सुन्दरसुरभाषा · दीपकम् कक्षा ८ · सप्तमः पाठः — NCERT आधारित समाधानम्

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!