षष्ठः पाठः – “डिजिभारतम् – युगपरिवर्तनम्” (Dijibhāratam – Yugaparivartanam) Class 8th Sanskrit (Deepakam) NCERT Solution

डिजिभारतम् – युगपरिवर्तनम् — सम्पूर्ण समाधानम्
दीपकम् · कक्षा ८ · षष्ठः पाठः

डिजिभारतम् – युगपरिवर्तनम्

सम्पूर्ण समाधानम् — Full Solutions

नवदेहली स्थित प्रधानमन्त्रि-सङ्ग्रहालय की यात्रा के माध्यम से इस पाठ में डिजिटल भारत अभियान (Digital India) — हॉलोग्राम, AR/VR, कृत्रिम-बुद्धि, UPI, फ़ास्टैग, डिजी-लॉकर आदि तकनीकों — का सरल संस्कृत में परिचय दिया गया है। यहाँ संवाद-सार, शब्दार्थ, व्याकरण-सूत्र, क्षेत्रवार डिजिटल योजनाएँ तथा समग्र प्रश्नोत्तर प्रस्तुत हैं।

भूमिका

पाठ-परिचयः

img-museum
चित्रम् : नवदेहली स्थित प्रधानमन्त्रि-सङ्ग्रहालय — जहाँ छात्र डिजिटल तकनीकें देखने पहुँचे — मूल पाठ्यपुस्तकतः

अस्माकं देशः भारतं न केवलं सांस्कृतिकक्षेत्रे समृद्धम्, अपि तु नित्यम् आविष्कारैः कीर्तिं लभते। अद्य सम्पूर्णविश्वे ‘डिजिटल्-भारतम्’ इत्यस्य चर्चा श्रूयते। एकस्यैव पिञ्जस्य (बटन के) नोदनेन (दबाने से) सर्वं नागरिक-सौविध्यं लभ्यते। अनेन भारतीयानां जीवनम् अधिकं सरलं जायमानम् अस्ति। डिजिटल्-पटले सम्पूर्णा वसुधा कुटुम्बवत् अस्ति। एकदा कक्षा के छात्र-छात्राएँ नवदेहली स्थित प्रधानमन्त्रि-सङ्ग्रहालय की यात्रा पर गए, जहाँ विविध डिजिटल-प्रौद्योगिकियाँ प्रदर्शित थीं। सभी उत्सुकतापूर्वक वहाँ प्रदर्शित वस्तुओं को देखने लगे।

पाठ्यांश

पाठ्यांश (संवाद) — सङ्ग्रहालय-भ्रमणम् एवं कक्षा-चर्चा

प्र.अध्यापकः छात्रान् प्रधानमन्त्रि-सङ्ग्रहालये किम् उक्तवान्?

उत्तरम्अध्यापकः उक्तवान् — “बालाः! प्रधानमन्त्रिसङ्ग्रहालये युष्माकं सर्वेषां स्वागतम्। अत्र विविधाः डिजिटल्-प्रौद्योगिक्यः प्रयुक्ताः सन्ति। सानन्दं सावधानं च पश्यन्तु। अनन्तरं एतस्योपरि चर्चां करिष्यामः।”

प्र.हॉलोग्राम् दृष्ट्वा छात्राः किम् अनुभूतवन्तः?

उत्तरम्छात्राः अवदन् — “अद्भुतं महोदय! अत्र हॉलोग्राम्-द्वारा प्रधानमन्त्रिणः भाषणं श्रूयते दृश्यते च। प्रत्यक्षमेव प्रधानमन्त्री अत्र उपविष्टः इति भासते।” यशिका अवदत् — “सत्यम्, अहम् अपि हॉलोग्राम् दृष्टवती। अनेन दिवङ्गताः नेतारः अपि जीविताः इव दृश्यन्ते।”

प्र.अथर्वः ‘वर्धिता-वास्तविकता’ (AR) एवं ‘आभासीया-वास्तविकता’ (VR) इत्यनयोः विषये किम् अकथयत्?

उत्तरम्अथर्वः अकथयत् — “अत्र ‘वर्धिता-वास्तविकता’ (AR) ‘आभासीया-वास्तविकता’ (VR) च इत्याभ्यां सम्बद्धानि उपकरणानि अपि सन्ति, अनेन ऐतिहासिकवृत्तानि प्रत्यक्षम् इव अनुभूयन्ते। ‘भारतीय-स्वतन्त्रता-सङ्ग्रामं’ दृष्ट्वा अस्माकं पूर्वजानां संघर्षः कियान् विशालः आसीत् इति ज्ञायते।”

प्र.भास्करः कृत्रिमबुद्धि-आधारितं यन्त्रं दृष्ट्वा किम् अवदत्?

उत्तरम्भास्करः अवदत् — “अहम् अत्र कृत्रिमबुद्धि-आधारितं संवादयन्त्रं दृष्टवान्। एतत् यन्त्रम् अस्माकं सर्वविधप्रश्नानाम् उत्तराणि ददाति।”

प्र.वेदिका डिजिटल्-प्रक्षेपण-चलच्चित्रं दृष्ट्वा किम् अनुभवत्?

उत्तरम्वेदिका अवदत् — “अहो! ‘डिजिटल्-प्रक्षेपण-चलच्चित्रं’ दृष्ट्वा अहं विस्मिता अभवम्। अत्र सम्पूर्णस्य भारतस्य विकास-यात्रा प्रदर्शिता अस्ति।” श्रेया अपि अवदत् — “एषः कश्चन अपूर्वः अनुभवः अस्ति, यश्च चिरकालपर्यन्तं स्मरणीयः भविष्यति।”
img-classroom
चित्रम् : सङ्ग्रहालय-भ्रमणानन्तरं कक्षायां अध्यापकः डिजिटल्-भारतस्य प्रभावं विस्तारेण बोधयति — मूल पाठ्यपुस्तकतः

प्र.यशिका व अथर्वः स्व-अनुभवात् किं किं कथयतः?

उत्तरम्यशिका अवदत् — “अहं स्वयं ‘डिजि-लॉकर्’ इत्यस्य उपयोगं करोमि। मम आधारपत्रं विद्यालयीयं प्रमाणपत्रं च तत्र सुरक्षितम् अस्ति।” अथर्वः अवदत् — “मम पितरौ ‘फ़ास्टॅग्’ इत्यस्य उपयोगं कुरुतः। अनेन राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य सङ्ग्रहणं शीघ्रं भवति।”

प्र.भास्करः ‘यूपीआय्’ (UPI) इत्यस्य विषये किम् अवदत्?

उत्तरम्भास्करः अवदत् — “अहम् ‘एकीकृत-धनदेयप्रत्यर्पण-अन्तरफलकस्य’ (यूपीआय्) उपयोगं करोमि। अनेन मम पितरौ अपि त्वरया मह्यं धनं प्रेषयितुं शक्नुतः।” अध्यापकः अपि जोड़ते हैं कि वित्तीयसमावेशनक्षेत्रे ‘यूपीआय्, रूपे-कार्ड्, जनधनयोजना’ इत्यादीनि बहूनि साधनानि सन्ति, तथा मुद्रारहित-विनिमयसन्दर्भे विश्वे भारतस्य अग्रगण्यं स्थानम् अस्ति।
img-shops
चित्रम् : जनौषधि केन्द्र में डिजिटल भुगतान तथा फ़ास्टैग द्वारा स्वचालित टोल-संग्रह — मूल पाठ्यपुस्तकतः

प्र.अध्यापकः डिजिटल्-योजनायाः लक्ष्यं कथं स्पष्टीकरोति?

उत्तरम्अध्यापकः वदति — “एषा भारतसर्वकारस्य विशिष्टा महत्त्वाकाङ्क्षिणी योजना अस्ति। राष्ट्रं डिजिटल्-रूपेण सुशक्तं भवेत् इत्येव अस्याः योजनायाः लक्ष्यम्। डिजिटल्-शक्तिः सर्वजनान् सुशक्तान् कुर्यात् इति अस्माकं ध्येयम्।” शासन-सेवा हेतु ‘डिजी-लॉकर्, उमङ्ग्, माय्-गव्, जेम्’ जैसे ई-शासन-पटल तथा ‘कोविन्-पटलम्’ ऑन्-लैन् टीकाकरण-पञ्जीकरण हेतु प्रयोग में लाए जाते हैं।

प्र.यशिका ग्राम्य-क्षेत्रे अन्तर्जालस्य समस्या विषये कां शङ्कां प्रकटयति, तस्याः समाधानं कथम् उक्तम्?

उत्तरम्यशिका पृच्छति — “किन्तु यदि ग्राम्य-क्षेत्रे अन्तर्जालस्य समस्या अस्ति तर्हि तत्र कथम् एतासां सेवानाम् उपयोगः भविष्यति?” श्रेया उत्तरं ददाति — “सर्वकारः अन्तर्जालस्य उत्तरोत्तरं विस्ताराय कार्यं करोति। अनेन ग्राम्य-क्षेत्रे अपि उच्चगतेः जालस्य उपलब्धिः भविष्यति।” भास्करः जोड़ता है कि इन सेवाओं का प्रयोग शिक्षा के माध्यम से अधिकाधिक प्रचारित किया जाना चाहिए, जिस पर अध्यापक ‘दीक्षा, स्वयम्, स्वयं-प्रभा, ई-पाठशाला’ आदि शिक्षा-क्षेत्र की डिजिटल योजनाओं का उल्लेख करते हैं।

प्र.अध्यापकः साङ्गणिक-सुरक्षा (Cyber Security) विषये किं सचेतयति?

उत्तरम्अध्यापकः वदति — “किन्तु अस्माभिः ‘साङ्गणिक-सुरक्षा’-विषये अपि चिन्तनीयम्। अनेकविधाः साङ्गणिक-अपराधाः भवन्ति। जनाः प्रायशः लोभात् भयात् वा साङ्गणिक-अपराधेन पीडिताः भवन्ति।” भास्करः जोड़ता है कि इस विषय में लोगों को जागरूक होना चाहिए, तथा इसके उपायों पर भी विचार किया जाना चाहिए। सत्रान्ते सर्वे मिलित्वा गायन्ति — “सर्वं विकसितं भाति डिजिटल्-भारतेऽधुना। जीवनस्य च सौकर्यं सहसा लभते जनः॥”
शब्दार्थाः

वयं शब्दार्थान् जानीमः

शब्दःसंस्कृत अर्थःहिन्दीEnglish
सङ्ग्रहालयःवस्तुसङ्ग्रहगृहम्संग्रहालयMuseum
हॉलोग्राम्त्रिवैम-प्रतिमूर्तिःहोलोग्रामHologram
वर्धिता वास्तविकतासंवर्धिता वास्तविकतासंवर्धित वास्तविकताAugmented Reality (AR)
आभासीया वास्तविकताआभासीया वास्तविकताआभासी वास्तविकताVirtual Reality (VR)
कृत्रिमबुद्धिःयान्त्रिकी बुद्धिःकृत्रिम-बुद्धिमत्ताArtificial Intelligence (AI)
डिजिटल्-प्रक्षेपणम्सङ्गणक-चित्रप्रदर्शनम्डिजिटल प्रक्षेपणDigital Projection
संवादःवार्तालापःसंवादConversation
प्रौद्योगिकीतन्त्रज्ञानम्प्रौद्योगिकीTechnology
उत्सुकताजिज्ञासाउत्सुकताCuriosity
भाषणम्प्रवचनम्भाषणSpeech
उपकरणानियन्त्राणिउपकरणDevices
अन्तर्जालम्अन्तर्जालम्संचारInternet
योगदानम्सहयोगःयोगदानContribution
आशुप्रतिक्रियाकूटःझटिति प्रतिक्रियायाः कूटःआशु प्रतिक्रिया कोडQuick Response Code
विस्तृतम्विस्तारपूर्वकम्विस्तृतDetailed
उपलब्धिःसिद्धिःउपलब्धिAchievement
दैनन्दिनजीवनम्दैनिक-जीवनम्दैनिक जीवनDaily Life
शासनम्प्रशासनम्शासनGovernance
शिक्षणम्विद्याप्रदानम्शिक्षणTeaching
वित्तीयसमावेशनम्धनविषयकः समावेशःवित्तीय समावेशनFinancial Inclusion
आधारपत्रम्आधारः (परिचयपत्रम्)आधार-पत्रAadhar Card
प्रमाणपत्रम्साक्ष्यपत्रम्प्रमाण-पत्रCertificate
शुल्कम्करःशुल्कFee
त्वरयाशीघ्रम्जल्दीQuickly
जनधनयोजनाएका वित्तीय-समावेशनयोजनाजनधन योजनाJandhan Financial Scheme
अनुदानम्दानम्अनुदानGrant
शिक्षायाः माध्यमेनशिक्षणोपायेनशिक्षा के माध्यम सेThrough Education
प्रचारणीयःप्रचारयोग्यःप्रचार-योग्यWorth propagating
कृषिःकृषि-कार्यम्खेतीAgriculture
वाणिज्यम्व्यापारःव्यापारTrade
आजीविकाव्यवसायः / वृत्तिःव्यवसायEmployment / Occupation
साङ्गणिक-सुरक्षाजालसुरक्षासाइबर सुरक्षाCyber Security
डिजिटल्-बन्धनम्डिजिटल्-बन्धनम्डिजिटल्-बन्धनDigital Arrest
डिजिटल्-साक्षरताडिजिटल्-शिक्षाडिजिटल्-साक्षरताDigital Literacy
अभ्यासः

अभ्यासात् जायते सिद्धिः — सम्पूर्ण उत्तराणि

पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत

क. प्रधानमन्त्रिसङ्ग्रहालये कीदृशी प्रौद्योगिकी प्रयुक्ता अस्ति?डिजिटल्-प्रौद्योगिकी
ख. हॉलोग्राम्-द्वारा कस्य भाषणं दृश्यते?प्रधानमन्त्रिणः
ग. कस्याः प्रभावः दैनन्दिनजीवने दृश्यते?‘डिजिटल्’ योजनायाः
घ. भारत-सर्वकारस्य महत्त्वाकाङ्क्षिणी योजना का अस्ति?डिजिटल्-भारतम्
ङ. ‘फ़ास्टॅग्’ इत्यस्य उपयोगेन कस्य सङ्ग्रहणं भवति?मार्गशुल्कस्य

पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत

प्रधानमन्त्रिसङ्ग्रहालये काः डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः सन्ति?

उत्तरम्प्रधानमन्त्रिसङ्ग्रहालये हॉलोग्राम्, वर्धिता-वास्तविकता (AR), आभासीया-वास्तविकता (VR), कृत्रिमबुद्धि-आधारितं संवादयन्त्रं, तथा डिजिटल्-प्रक्षेपण-चलच्चित्रम् इत्यादयः डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः सन्ति।

जनाः किमर्थं साङ्गणिक-अपराधेन पीडिताः भवन्ति?

उत्तरम्जनाः प्रायशः लोभात् भयात् वा साङ्गणिक-अपराधेन पीडिताः भवन्ति।

यशिका ‘डिजि-लॉकर्’ इत्यस्य उपयोगं कथं करोति?

उत्तरम्यशिका स्वयं ‘डिजि-लॉकर्’ इत्यस्य उपयोगं करोति; तस्याः आधारपत्रं विद्यालयीयं प्रमाणपत्रं च तत्र सुरक्षितम् अस्ति।

डिजिटल्-भारतस्य वित्तीयसमावेशने काः योजनाः सन्ति?

उत्तरम्वित्तीयसमावेशने ‘यूपीआय्’ (UPI), ‘रूपे-कार्ड्’, ‘जनधनयोजना’ इत्यादीनि बहूनि साधनानि सन्ति।

डिजिटल्-भारते शिक्षायाः क्षेत्रे केषां पटलानाम् उपयोगः करणीयः?

उत्तरम्शिक्षायाः क्षेत्रे ‘दीक्षा’ (DIKSHA), ‘स्वयम्’ (SWAYAM), ‘स्वयं-प्रभा’, ‘ई-पाठशाला’, ‘भारतीय-राष्ट्रिय-डिजिटल्-पुस्तकालयः’, ‘निष्ठा’ (NISHTHA), ‘पीएम्-ई-विद्या’ इत्यादीनां पटलानां उपयोगः करणीयः।

ग्राम्य-क्षेत्रेषु डिजिटल्-सेवानां समस्या कथं निराकर्तुं शक्यते?

उत्तरम्सर्वकारः अन्तर्जालस्य उत्तरोत्तरं विस्ताराय कार्यं करोति, अनेन ग्राम्य-क्षेत्रे अपि उच्चगतेः जालस्य उपलब्धिः भविष्यति, तथा एतासां सेवानाम् उपयोगः शिक्षायाः माध्यमेन अधिकाधिकं प्रचारणीयः।

अधः दत्तान् शब्दान् सम्यक् संयोजयत

यूपीआय् (UPI)शीघ्रं, सुरक्षितं, सुगमं च डिजिटल्-धनदेय-प्रत्यर्पणम्
फ़ास्टॅग् (FASTag)राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणम्
वीआर (VR)आभासीया-वास्तविकता
डिजि-लॉकर्डिजिटल्-प्रमाणपत्रम्
हॉलोग्राम्कृत्रिम-बुद्धिः (AI)
ज्ञातव्यम्: पाठ्यपुस्तके यह मेलन-अभ्यास (matching exercise) जान-बूझकर अस्त-व्यस्त क्रम में दिया गया है — छात्रों को अर्थ के आधार पर सही जोड़े बनाने होते हैं। ऊपर सही मिलान प्रस्तुत है।

अधः प्रदत्तमञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत

शब्द-पेटी: यूपीआय्, दीक्षा, प्रधानमन्त्रिणः भाषणं, स्वचालितं पारदर्शकं च, जीवन
(क) प्रधानमन्त्रिसङ्ग्रहालये हॉलोग्राम्-द्वारा प्रधानमन्त्रिणः भाषणं दृश्यते।
(ख) डिजिटल्-भारतस्य आर्थिकसमावेशनं सुगमं कर्तुं यूपीआय् प्रणाली अस्ति।
(ग) डिजिटल्-शासनं स्वचालितं पारदर्शकं च सेवां प्रददाति।
(घ) डिजिटल्-भारतस्य शिक्षाक्षेत्रे दीक्षा नाम डिजिटल्-शैक्षिकमञ्चः अस्ति।
(ङ) भारतस्य डिजिटल्-परिवर्तनं सर्वाणि जीवन क्षेत्राणि स्पृशति।

वर्गचित्र-जालम् — शब्दजाले छिपे शब्दों को पहचानिए

वामतः दक्षिणम्, उपरितः अधः च आधारं कृत्वा शब्दान् रेखाङ्कयत
माराडिजीलॉर्संपीसै
य्जिहॉवा
माभार्धिलोब्लॉम्र्
व्र्गःल्सीताग्राक्किक्रै
यूपीय्नाम्चेन्त्रसाम्
वाजेशाविज्ञान्म्न्ना
णिनिर्थव्यस्था
ज्यकोवेन्कृत्रिबुद्धिः
म्स्वम्प्रभाशिनि
प्रौद्योगिकीफ़ास्टॅग्क्षाष्ठा
प्राप्त-शब्दाः (उत्तराणि) क्षैतिज (horizontal): डिजिलॉकर् (पंक्ति १), यूपीआय् (पंक्ति ५), अर्थव्यवस्था (पंक्ति ७), कृत्रिमबुद्धिः (पंक्ति ८), स्वयम्प्रभा (पंक्ति ९), फ़ास्टॅग् (पंक्ति १०)।
उर्ध्वाधर (vertical): डिजिटल् (स्तम्भ ३, पंक्ति १–४)।

अधोलिखितान् शब्दान् वर्गद्वये विभजत — सङ्गणकसम्बद्धाः, असङ्गणकसम्बद्धाः च

शब्दाः: अन्तर्जालम्, शिक्षिका, सङ्गणकः, विद्यालयः, ई-पत्रम्, पाठ्यपुस्तकम्, डिजिटल्, लेखनी
सङ्गणकसम्बद्धाःअसङ्गणकसम्बद्धाः
अन्तर्जालम्शिक्षिका
सङ्गणकःविद्यालयः
ई-पत्रम्पाठ्यपुस्तकम्
डिजिटल्लेखनी

अधोलिखितानि वाक्यानि पठित्वा शुद्धं (✓) अशुद्धं (✗) वा इति चिह्नीकुरुत

क. हॉलोग्राम् कृत्रिमबुद्धेः एकः प्रकारः अस्ति।✗ अशुद्धम्
ख. वर्धित-वास्तविकतायाः उपयोगिता ऐतिहासिक-घटनानां प्रत्यक्षानुभवाय अस्ति।✓ शुद्धम्
ग. डिजिटल्-प्रक्षेपण-मानचित्रं भारतस्य विकासयात्रां प्रदर्शयति।✓ शुद्धम्
घ. फ़ास्टॅग् इति राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणं करोति।✓ शुद्धम्
ङ. डिजी-लॉकर् इत्यस्य माध्यमेन केवलम् आधार-पत्रं सुरक्षितुं शक्यते।✗ अशुद्धम्
च. भारतस्य डिजिटल्-परिवर्तनं केवलं शासने प्रभावं करोति, नागरिकजीवने न।✗ अशुद्धम्
छ. उमङ्ग्, माय्-गव्, जेम् इत्यादयः ई-शासन-मञ्चाः सन्ति।✓ शुद्धम्

अव्यवस्थितान् वर्णान् शब्ददृष्ट्या व्यवस्थितरूपेण लिखत

उदाहरणम्: वेयवित्तीसमानशम् = वित्तीयसमावेशनम्
क. कसङ्गमणसङ्गणकम्
ख. कार्वसरःसाक्षरता
ग. लयःविद्याविद्यालयः
घ. जिकडिलॉर्डिजिलॉकर्
ङ. शक्तसुम्सुशक्तम्

अधोलिखितं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत

“अद्यतने विज्ञानयुगे सर्वे मनुष्याः डिजिटल्-प्रौद्योगिक्याः प्रयोगं कुर्वन्ति। जनाः अन्तर्जालस्य, सचलदूरवाण्याः, सङ्गणकस्य च साहाय्येन शीघ्रं कार्याणि सम्पादयन्ति। विद्यार्थिनः अपि ई-अधिगम-प्रणालीं स्वीकृत्य ज्ञानं वर्धयन्ति।”

अद्यतनं युगं कीदृशम् अस्ति?

उत्तरम्अद्यतनं युगं विज्ञानयुगम् अस्ति।

मानवाः केषां साहाय्येन कार्याणि शीघ्रं कुर्वन्ति?

उत्तरम्मानवाः अन्तर्जालस्य, सचलदूरवाण्याः, सङ्गणकस्य च साहाय्येन कार्याणि शीघ्रं कुर्वन्ति।

ई-अधिगम-प्रणाल्याः प्रयोगं के कुर्वन्ति?

उत्तरम्विद्यार्थिनः ई-अधिगम-प्रणाल्याः प्रयोगं कुर्वन्ति।
P

परियोजनाकार्यम्

आशुप्रतिक्रियाकूट (QR Code) अथवा सम्पर्कचिह्न (Link) द्वारा प्रधानमन्त्रिसङ्ग्रहालय का आभासीय भ्रमण करके भारत के डिजिटल-विकास का वर्णन कीजिए।

दिशानिर्देशःसम्पर्कचिह्नम् (Link): https://www.pmsangrahalaya.gov.in/virtual-tour — छात्राः इस लिंक अथवा पाठ्यपुस्तक में दिए QR कोड से संग्रहालय का आभासीय भ्रमण करें, तथा वहाँ देखी गई डिजिटल तकनीकों (होलोग्राम, AR/VR, AI इत्यादि) के आधार पर संक्षिप्त संस्कृत विवरण लिखें।

छात्राः समूहेषु विभक्ताः भवेयुः, प्रत्येकं समूहः डिजिटल्-भारतस्य कस्याश्चिदपि योजनायाः प्रस्तुतिं करोतु।

दिशानिर्देशःप्रत्येक समूह नीचे दी गई क्षेत्रवार योजना-सूची (योग्यताविस्तरः अनुभाग देखें) में से कोई एक योजना (जैसे UPI, DigiLocker, eNAM, CoWIN आदि) चुनकर उसकी विशेषताओं व लाभों पर कक्षा में संस्कृत में प्रस्तुति (presentation) दे।
व्याकरणम्

अत्र इदम् अवधेयम्

१. क्त-प्रत्ययः

‘क्त’-प्रत्ययस्य प्रयोगः भूतकालार्थे कर्मवाच्ये भाववाच्ये च भवति। धातवः द्वि-विधा भवन्ति — अकर्मकाः, सकर्मकाः। यथा — रामः पाठम् अपठत्। अत्र कर्ता — रामः, कर्म — पाठम्, क्रिया — अपठत्।

यदा ‘क्त’ प्रत्ययः युज्यते तर्हि वाक्यं कर्मवाच्ये परिवर्तनीयम्। यथा — रामेण रावणः मारितः। यदा ‘क्त’ प्रत्ययस्य प्रयोगः क्रियते तदा कर्त्तरि तृतीया कर्मणि च प्रथमा भवति। यथा — बालकः पाठं पठति (कर्तृवाच्यम्) = बालकेन पाठः पठितः (कर्मवाच्यम्)। क्त-प्रत्ययस्य प्रयोगः त्रिषु लिङ्गेषु भवति।

मूलधातुःक्त-प्रत्ययःपुंलिङ्गम्स्त्रीलिङ्गम्नपुंसकलिङ्गम्
युज्युक्तयुक्तःयुक्तायुक्तम्
भूभूतभूतःभूताभूतम्
विश्विष्टविष्टःविष्टाविष्टम्
दादत्तदत्तःदत्तादत्तम्
रक्ष्रक्षितरक्षितःरक्षितारक्षितम्

२. शतृ-प्रत्ययः

‘शतृ’-प्रत्ययस्य प्रयोगः वर्तमानकाले कार्यं कुर्वन्तं जनं पदार्थं वा बोधयति। अस्य प्रयोगः केवलं परस्मैपदिभिः धातुभिः सह भवति। अस्य प्रयोगः त्रिषु लिङ्गेषु भवति। रूपनिर्माणम् — धातुः + शतृ-प्रत्ययः = पठ् + शतृ = पठन्।

मूलधातुःलट्-लकारःशतृ-प्रत्ययान्तं पदम्
दृश्पश्यतिपश्यन्
कृकरोतिकुर्वन्
ज्ञाजानातिजानन्
इष्इच्छतिइच्छन्
गम्गच्छतिगच्छन्
योग्यताविस्तरः

क्षेत्रानुसारं भारते डिजिटल्-प्रगतिः

१. शिक्षाक्षेत्रम्
  • दीक्षामञ्चः (DIKSHA)
  • राष्ट्रिय-अकेॅडमिक्-निक्षेपगृहः
  • ई-पाठशाला (ePathshala)
  • सर्वेभ्यः कृत्रिम-बुद्धि-अभियानम् (AI for All)
२. वित्तं विनिमयः च
  • एकीकृत-विनिमय-पटलम् (UPI)
  • भीम-अनुप्रयोगः (BHIM App)
  • आधार-सक्षम-वित्तीय-पद्धतिः (AEPS)
  • रुपे-कार्ड्, ई-रूपी, जनधन-आधार-दूरवाणी-त्रयी
३. आरोग्यम्
  • आयुष्मान्-भारत-डिजिटल्-अभियानम् (ABDM)
  • कोविन्-टीकाकरण-पञ्जीकरणम् (CoWIN)
  • ई-संजीवनी दूरस्वास्थ्य-सेवा (eSanjeevani)
४. शासनम्
  • डिजि-लॉकर् (Digi-Locker)
  • मम शासनम् (MyGov)
  • ई-जनपदसेवा (eDistrict)
  • CPGRAMS
५. कृषिक्षेत्रम्
  • ई-राष्ट्रिय-कृषि-आपणः (eNAM)
  • PM-KISAN
  • mKisan
  • Kisan Suvidha
६. आजीविका-निपुणता
  • राष्ट्रिय-आजीविका-सेवा
  • Skill India Digital
  • ASEEM Portal
  • eSkill India
७. न्यायव्यवस्था
  • ई-न्यायालयः (eCourts)
  • NJDG
८. परिचयः सुरक्षा च
  • CCTNS (अपराध-प्रत्यक्षाभिज्ञान-जाल-प्रणाली)
९. कर-प्रणाली व्यवसायः च
  • GST Portal
  • GeM Portal
  • Udyam Portal
१०. संप्रेषण तन्त्रज्ञानम् च
  • डिजिटल्-भारताभियानम् (Digital India)

भारतीयज्ञानपरम्परा: छन्दःशास्त्रम् (पिङ्गलाचार्यः) — पिङ्गलस्य छन्दःशास्त्रे द्व्यधिक-सङ्ख्या-व्यवस्था (Binary Number System) निरूपिता अस्ति। आर्यभटीयम् (आर्यभटः) — आर्यभटेन प्रतिपादितः दशमलव-सङ्ख्या-विधिः (Decimal System) एवञ्च स्थानिमूलक-गणना-विधिः (Place-Value Notation) आधुनिक-सङ्गणकगणनायाः मूलाधारौ स्तः।

ज्ञातव्यम्: डिजिटल इण्डिया अभियान का लक्ष्य है — राष्ट्र को डिजिटल रूप से सशक्त बनाना (डिजिटल्-रूपेण सुशक्तं भवेत्)। यह अभियान शिक्षा, स्वास्थ्य, वित्त, कृषि, शासन, न्याय जैसे लगभग सभी क्षेत्रों को स्पर्श करता है, परन्तु साथ ही साइबर सुरक्षा के प्रति जागरूक रहना भी उतना ही आवश्यक है।
डिजिभारतम् – युगपरिवर्तनम् · दीपकम् कक्षा ८ · षष्ठः पाठः — NCERT आधारित समाधानम्

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!