शूराः वयं धीराः वयम्
एतत् सम्पूर्णं गीतं सस्वरं गायन्तु, लिखन्तु, कण्ठस्थं च कुर्वन्तु
गुणशालिनो बलशालिनो जयगामिनो नितराम्॥
जनसेवका अतिभावुकाः शुभचिन्तका नियतम्॥
ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये॥
यामो वयं समराङ्गणं विजयार्थिनो बालाः॥
जयमङ्गलं परमोज्ज्वलं नो देहि परमात्मन्॥
अवधेयांशः — प्रातिपदिकम् एवं सर्वनाम-रूपाणि
नियमः ‘रामः, सः, सीता, देवालयः, पीतः, बलशालिनः’ इत्यादीनि पदानि नामपदानि सन्ति। ‘रामः’ इति पदस्य मूलम् ‘राम’ अस्ति। नामपदस्य मूलरूपं ‘प्रातिपदिकम्’ इति कथ्यते।
| तद् | |||
|---|---|---|---|
| एकवचनम् | द्विवचनम् | बहुवचनम् | |
| पुंलिङ्गम् | सः | तौ | ते |
| स्त्रीलिङ्गम् | सा | ते | ताः |
| नपुंसकलिङ्गम् | तत् | ते | तानि |
| एतद् | |||
|---|---|---|---|
| एकवचनम् | द्विवचनम् | बहुवचनम् | |
| पुंलिङ्गम् | एषः | एतौ | एते |
| स्त्रीलिङ्गम् | एषा | एते | एताः |
| नपुंसकलिङ्गम् | एतत् | एते | एतानि |
| एकवचनम् | द्विवचनम् | बहुवचनम् | |
|---|---|---|---|
| अस्मद् (त्रिषु लिङ्गेषु समान) | अहम् | आवाम् | वयम् |
| युष्मद् (त्रिषु लिङ्गेषु समान) | त्वम् | युवाम् | यूयम् |
गीतस्य भावार्थः
वयं सर्वे भारतीयाः शूराः, वीराः, धैर्यशालिनः च स्मः। सर्वे गुणशालिनः बलशालिनः विजेतारः च स्मः। वयं दृढसंकल्पयुक्ताः, लोभरहिताः, साहसयुक्ताः च स्मः। वयं सर्वे भारतवासिनः उत्तमभावेन जनानां सेवां कुर्मः, सर्वेषां शुभचिन्तनं कुर्मः। अस्माकं हृदये धन-अधिककामना, सुख-वासना, कपटभावना च न सन्ति। तेजोयुक्ताः वयं भारतीयाः ऊर्जापूर्वकं दृढतया च कार्यं कुर्मः। वयं निर्भयाः दृढशक्त्या युक्ताः युद्धक्षेत्रे सर्वदा नीतिपूर्वकं विजयम् इच्छामः। अन्ततः प्रार्थना — हे भगवन्! हे संसारस्य स्वामिन्! भवान् अस्माकं कृते सर्वेषु कार्येषु उज्ज्वलं शुभं च विजयं प्रयच्छतु।
पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु
उदाहरणानुसारम् पदानां वचनपरिवर्तनं कुर्वन्तु
स्तम्भौ मेलयन्तु उत्तरं च लिखन्तु
उदाहरणानुसारम् वचनपरिवर्तनं कुर्वन्तु
पदानि परस्परं संयोज्य वाक्यानि रचयन्तु
कोष्ठकात् उचितं पदं स्वीकृत्य रिक्तस्थाने लिखन्तु
उदाहरणमनुसृत्य उचितेन पदेन रिक्तस्थानं पूरयन्तु
कवि-परिचयः, शब्दरूपाणि च
१. गीतस्य रचनाकारः — अस्य गीतस्य रचनाकारः श्रीधरः भास्करः वर्णेकरः अस्ति। एषः सुप्रसिद्धः आधुनिकः कविः अस्ति। वर्णेकरमहोदयस्य जन्म महाराष्ट्र-राज्ये नागपुरनगरे अभवत्। एषः अनेकानि काव्यानि, नाटकानि, गीतानि च रचितवान्। वर्णेकरमहोदयः राष्ट्रपतिपुरस्कारेण अपि सम्मानितः अस्ति।
२. शब्दरूप-सारणी (सन्दर्भार्थम्)
| शब्दः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| भारतीय | भारतीयः | भारतीयौ | भारतीयाः |
| धीर | धीरः | धीरौ | धीराः |
| शूर | शूरः | शूरौ | शूराः |
| जनसेवक | जनसेवकः | जनसेवकौ | जनसेवकाः |
| शुभचिन्तक | शुभचिन्तकः | शुभचिन्तकौ | शुभचिन्तकाः |
| बाल | बालः | बालौ | बालाः |
| निखिल | निखिलः | निखिलौ | निखिलाः |
| कामना | कामना | कामने | कामनाः |
| वासना | वासना | वासने | वासनाः |
| वञ्चना | वञ्चना | वञ्चने | वञ्चनाः |
| समराङ्गण | समराङ्गणम् | समराङ्गणे | समराङ्गणानि |
| शोभन | शोभनम् | शोभने | शोभनानि |
| नियत | नियतम् | नियते | नियतानि |
३. महापुरुषाः / राष्ट्रनायकाः (गीतस्य भावानां प्रतिरूपाः)
४. स्तोत्रम् — भारतीय वीराः व वीराङ्गनाः
द्रौपदी कण्णगी गार्गी मीरा दुर्गावती तथा॥
निवेदिता सारदा च प्रणम्याः मातृदेवताः॥
अशोकः पुष्यमित्रश्च खारवेलः सुनीतिमान्॥
रामतीर्थोऽरविन्दश्च विवेकानन्द उद्यशाः॥
मार्गदर्शनम्
निर्देशाः एवं सहायता
- लघुजीवनवृत्तम्: स्वामी विवेकानन्दः / शिवाजिः / राणाप्रतापः — इन तीनों में से किसी एक की संक्षिप्त जीवनी (जन्म, प्रमुख कार्य, उपदेश/योगदान) 5-6 संस्कृत वाक्यों में लिखिए। उदाहरणार्थ ढाँचा: “एतस्य नाम ___ अस्ति। एतस्य जन्म ___ अभवत्। एषः ___ कृते प्रसिद्धः अस्ति।”
- प्रथमाविभक्तेः बहुवचनान्त-पदानि: इस पाठ से बहुवचन (प्रथमा विभक्ति) के शब्द छाँटिए — यथा: शूराः, धीराः, वीराः, गुणशालिनः, बलशालिनः, जयगामिनः, दृढमानसाः, प्रियसाहसाः, जनसेवकाः, शुभचिन्तकाः, ऊर्जस्वलाः, वर्चस्वलाः, अतिनिश्चलाः, निखिलाः, बालाः — इनमें से किन्हीं दस शब्दों का वाक्य में प्रयोग कीजिए (यथा — “वयं शूराः स्मः।”, “छात्राः धीराः सन्ति।”)।
- अन्य देशभक्ति-गीतम्: कोई अन्य संस्कृत देशभक्ति-गीत खोजकर कक्षा में सामूहिक रूप से गाइए/पढ़िए (उदाहरण: “वन्दे मातरम्” संस्कृत रूप)।
- स्तोत्र-स्मरणम्: ऊपर दिया गया वीरों-वीरांगनाओं का स्तोत्र ध्यानपूर्वक पढ़कर कण्ठस्थ कीजिए।
