दीपकम् · कक्षा ६ · षष्ठः पाठः
अहं प्रातः उत्तिष्ठामि
पाठे दत्तानां सर्वेषां अभ्यास-प्रश्नानां (समय-रूपान्तरणम्, प्रश्ननिर्माणम्, शिष्टाचार-पद-योजनम्) पूर्ण समाधानानि — केवल पाठ्य-रूपेण, चित्ररहितम्।
दिनचर्याIntext
समय-नियमाःIntext
प्रश्न १शिष्टाचार-चयनम्
प्रश्न २शब्दात् संख्या
प्रश्न ३संख्यातः शब्द
प्रश्न ४प्रश्ननिर्माणम्
प्रश्न ५स्व-दिनचर्या
प्रश्न ६पद-योजनम्
परियोजना+ योग्यताविस्तरः
Intext · Page 70–71
सन्दीपस्य दिनचर्या (पाठ्यांशः)
पाठे दत्तं पूर्ण दिनचर्या-विवरणम् — समयक्रमेण, संदर्भार्थं यहाँ सूचीबद्धम्।
५:००अहं प्रतिदिनं प्रातः पञ्चवादने उत्तिष्ठामि।
—प्रथमं भूमेः वन्दनं करोमि, मातापितरौ च नमामि।
—ततः उषःपानं करोमि, कवोष्णं जलं पिबामि।
५:१५अहं सपाद-पञ्चवादने शौचं करोमि, तदनन्तरं मुखप्रक्षालनं दन्तधावनं च करोमि।
५:३०अहं सार्ध-पञ्चवादने सूर्य-नमस्कारं योगासनं च करोमि।
६:००अहं षड्वादने स्वाध्यायं करोमि।
६:३०अहं सार्ध-षड्वादने मम परिसरं स्वच्छं करोमि।
६:४५ततः पादोन-सप्तवादने स्नानं करोमि।
—तदनन्तरं मातुः पितुः च चरणवन्दनं करोमि।
७:००अहं सप्तवादने प्रार्थनां करोमि, गीतापाठं च करोमि।
७:३०अहं सार्ध-सप्तवादने प्रातराशं करोमि।
८:००तत्पश्चात् अष्टवादने विद्यालयं गच्छामि।
Intext · Page 72–73
समय कथं कथ्यते? — नियमाः
पूर्ण घण्टा संख्या + वादनम् — यथा षड्-वादनम् = ६:००
१५ मिनट अधिक सपाद-संख्या-वादनम् = X:१५ — यथा सपाद-षड्वादनम् = ६:१५
३० मिनट अधिक सार्ध-संख्या-वादनम् = X:३० — यथा सार्ध-षड्वादनम् = ६:३०
१५ मिनट न्यून पादोन-
| संख्या | १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| संस्कृतम् | एकम् | द्वे | त्रीणि | चत्वारि | पञ्च | षट् | सप्त | अष्ट | नव | दश | एकादश | द्वादश |
Exercise · प्रश्न १
पट्टिकातः शिष्टाचारस्य पदानि चित्वा लिखन्तु
पेटिकायां सत्-गुणाः (शिष्टाचारः) एवं दुर्गुणाः (अशिष्टाचारः) मिश्रिताः सन्ति। दुर्गुण-पदानि (लाल-रेखाङ्कितानि) त्यक्त्वा शेषाणि सर्वाणि शिष्टाचार-पदानि सन्ति।
कलहःअहङ्कारःपरस्परद्वेषःअसूयाहिंसा
उत्तर — शिष्टाचारस्य पदानि (२० पदानि):
गुरुवन्दनम्वृद्धसेवाअतिथिसत्कारः
मातृप्रेमपितृभक्तिःज्येष्ठेषु आदरःकनिष्ठेषु प्रीतिः
बन्धुषु प्रीतिःस्वाभिमानम्परोपकारः
प्राणिषु दयाप्रियवचनम्सत्यकथनम्सत्पात्रे दानम्
सर्वेषु मैत्रीभावःअहिंसासमयपालनम्स्वच्छताप्रकृतिरक्षणम्
भ्रातृषु भगिनीषु च स्नेहः
Exercise · प्रश्न २
उदाहरणानुगुणं समयं संख्याभिः लिखन्तु
यथा
पादोन-सप्तवादनम्
६:४५
१
सार्ध-दशवादनम्
१०:३०
२
दशवादनम्
१०:००
३
सपाद-षड्वादनम्
६:१५
४
सार्ध-चतुर्वादनम्
४:३०
५
पादोन-एकादशवादनम्
१०:४५
Exercise · प्रश्न ३
उदाहरणानुगुणं समयम् अक्षरैः लिखन्तु
यथा
०६:००
षड्वादनम्
१
१२:००
द्वादशवादनम्
२
०५:३०
सार्ध-पञ्चवादनम्
३
०६:४५
पादोन-सप्तवादनम्
४
०९:४५
पादोन-दशवादनम्
५
११:३०
सार्ध-एकादशवादनम्
Exercise · प्रश्न ४
उदाहरणानुगुणं प्रश्ननिर्माणं कुर्वन्तु
वाक्ये दत्त-समयपदस्य स्थाने ‘कदा’ (when?) शब्दं योजयित्वा प्रश्नः निर्मीयते।
यथा — सः सार्ध-सप्तवादने अध्ययनं करोति। → सः कदा अध्ययनं करोति?
(क) सा सपाद-नववादने विद्यालयं गच्छति। → सा कदा विद्यालयं गच्छति?
(ख) सतीशः सार्ध-द्वादशवादने भोजनं करोति। → सतीशः कदा भोजनं करोति?
(ग) यानं पञ्चवादने आगच्छति। → यानं कदा आगच्छति?
(घ) गोपालः षड्वादने गोदोहनं करोति। → गोपालः कदा गोदोहनं करोति?
(ङ) माता दशवादने कार्यालयं गच्छति। → माता कदा कार्यालयं गच्छति?
↑ प्रश्न ३ गच्छतु
Exercise · प्रश्न ५
स्वस्य दिनचर्यां सरलवाक्यैः लिखन्तु
यह प्रश्न व्यक्तिगत (personal) है — प्रत्येक छात्रः स्व-दिनचर्यां स्वयं लिखेत्। मार्गदर्शनार्थं एकं प्रतिरूप-उत्तरं (model answer) निम्न दत्तम् —
६:००अहं प्रातः षड्वादने उत्तिष्ठामि।
६:१५अहं सपाद-षड्वादने दन्तधावनं करोमि।
६:३०अहं सार्ध-षड्वादने स्नानं करोमि।
७:००अहं सप्तवादने प्रार्थनां करोमि।
७:३०अहं सार्ध-सप्तवादने प्रातराशं करोमि।
८:००अहं अष्टवादने विद्यालयं गच्छामि।
Exercise · प्रश्न ६
वाक्येषु शिष्टाचारपदं योजयन्तु
पेटिका: नियमपालनं · सेवां · मैत्रीभावः · साहाय्यं · सत्कारं · दयाभावः
यथा — युवकः मातापित्रोः सेवां करोति।
(क) सा दुर्बलानां साहाय्यं करोति।
(ख) सर्वेषु प्राणिषु दयाभावः भवतु।
(ग) सर्वे छात्राः पाठशालायाः नियमपालनं कुर्वन्तु।
(घ) वयं सर्वे अतिथीनां सत्कारं कुर्मः।
(ङ) परस्परं छात्रेषु मैत्रीभावः भवतु।
↑ प्रश्न ५ गच्छतु
Intext · Page 73
शब्दार्थाः — Vocabulary Reference
| शब्दः | अर्थः | हिन्दी | English |
|---|---|---|---|
| दिनचर्याम् | दैनन्दिन-कार्यसरणीम् | दैनिक कार्य | Daily Routine |
| वदामि | कथयामि | बोल रहा/रही हूँ | I speak |
| प्रतिदिनम् | नित्यम् | हर दिन | Daily |
| उत्तिष्ठामि | जागर्मि | जागता/जागती हूँ | I wake up |
| भूमेः | पृथिव्याः | भूमि का | Of the earth |
| वन्दनम् | नमनम् | अभिवादन | Salutation |
| मुखप्रक्षालनम् | मुखधावनम् | मुँह धोना | Facewash |
| तदनन्तरम् | ततः परम् | उसके पश्चात् | After that |
| दन्तधावनम् | दन्तशोधनम् | दाँतों का मंजन | Brushing teeth |
| योगासनम् | योगासनक्रिया | योगासन | Yogasana |
| स्वाध्यायम् | स्व-अध्ययनम् | स्वयं अध्ययन | Self-study |
| स्नानम् | शरीरशुद्धिः | नहाना | Bath |
| श्लोकान् | छन्दोबद्धानि पद्यानि | श्लोकों को | Metred verses |
| प्रातराशम् | कल्याहारम् | अल्पाहार | Breakfast |
| विद्यालयम् | पाठशालाम् | विद्यालय को | To the school |
| गच्छामि | यामि | जाता/जाती हूँ | I go |
| इदानीम् | सम्प्रति | अभी | Now |
| उषःपानम् | प्रातः कवोष्ण-जलस्य पानम् | सुबह गुनगुना जल पीना | Drinking warm water in morning |
योग्यताविस्तरः
भारतीय-ज्ञान-परम्परायां समयः घटीयन्त्राणि च
प्राचीनभारते जनाः समयनिर्देशार्थं सूर्यस्य गतिं पश्यन्ति स्म। तस्य कृते ते बहुविधस्य विज्ञानस्य आविष्करणं कृतवन्तः। तादृशानि विज्ञानयन्त्राणि सामान्यतः प्रसिद्धेषु देवालयेषु दृश्यन्ते — यथा ओडिशाराज्ये कोणार्कक्षेत्रे विद्यमाने सूर्यमन्दिरे चक्राणि सन्ति। तथैव जयपुरस्य व देहल्याः जन्तरमन्तर-स्थलेषु घटिकायन्त्रम् एवं मिश्रयन्त्रं दृश्येते।
प्रातः स्मरणम्
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती।
करमूले तु गोविन्दः प्रभाते करदर्शनम्॥
करमूले तु गोविन्दः प्रभाते करदर्शनम्॥
भूमिवन्दना
समुद्रवसने देवि पर्वतस्तनमण्डले।
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे॥
विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे॥
परियोजनाकार्यम् — मार्गदर्शनम्
- घटी-चित्रणम्: स्फोरकपत्रे (चार्ट पेपर पर) विभिन्न समयों को दर्शाती घड़ियों के चित्र बनाइए, उनमें रंग भरिए, और प्रत्येक घड़ी के नीचे संस्कृत में समय (यथा — सपाद-अष्टवादनम्, सार्ध-दशवादनम्) लिखिए।
- स्व-दिनचर्या लेखनम्: माता/पिता से चर्चा करके अपनी दैनिक दिनचर्या को संस्कृत में सरल वाक्यों में लिखिए (देखें प्रश्न ५ का प्रतिरूप-उत्तर ऊपर)।
- श्लोक-संग्रहः: शिष्टाचार (अच्छे आचरण) के विषय में पाँच श्लोकों का संग्रह कीजिए और उन्हें कण्ठस्थ (याद) कीजिए — ऊपर दिए गए दो श्लोक (प्रातः स्मरणम्, भूमिवन्दना) प्रारम्भ-बिन्दु रूप में उपयोग कर सकते हैं; शेष तीन श्लोक गुरुजनों/पुस्तकालय से एकत्र करें।
