प्रथमः पाठः 1 – वन्दे भारतमातरम् (Vande Bhāratamātaram) Class 8th Sanskrit (Deepakam) NCERT Solution

वन्दे भारतमातरम् — पाठ १ | समाधानम्
दीपकम् · कक्षा ७ · संस्कृतम्

प्रथमः पाठः — वन्दे भारतमातरम्

पाठगत-प्रश्नानां तथा अभ्यास-प्रश्नानां पूर्ण-समाधानम् (Complete Solutions)

पाठगत प्रश्नाः

Intext / Story Questions

पाठे बालकाः मातरं यत् यत् पृच्छन्ति, तेषां प्रश्नानाम् उत्तराणि पाठात् एव सङ्कलितानि सन्ति।

प्र. मातः ! अस्य (‘वन्दे मातरम्’) कः अर्थः ?
उ. वन्दे मातरम्‘ इत्यस्य अर्थः अस्ति यत् ‘अहं मातुः वन्दनं करोमि‘ इति — अर्थात् मैं माता को प्रणाम करता हूँ।
प्र. ‘इदं गीतं कः लिखितवान्’ इति जिज्ञासा ?
उ. महान् देशभक्तः बङ्किमचन्द्रः चट्टोपाध्यायः १८८२ तमे वर्षे ‘आनन्दमठः‘ इति नामकम् उपन्यासं लिखितवान्। ‘वन्दे मातरम्’ इति गीतं तस्मिन् एव उपन्यासे वर्तते।
प्र. मातः ! इदं गीतं कस्यां भाषायाम् अस्ति ?
उ. एतत् गीतं संस्कृतं बाङ्ग्ला च इति भाषाद्वये वर्तते।
प्र. अस्मिन् गीते वर्ण्यः विषयः कः अस्ति ?
उ. अस्मिन् गीते भारतमातुः स्वरूपस्य रम्यं वर्णनम् अस्ति।
प्र. अम्ब ! एतस्य गीतस्य किं वैशिष्ट्यम् ?
उ. स्वतन्त्रतायाः आन्दोलने सर्वे देशभक्ताः एतत् गीतं मन्त्रम् इव गायन्ति स्म। सम्प्रति अपि इदं गीतं श्रुत्वा गीत्वा च वयं सर्वे भारतीयाः प्रेरिताः भवामः।
प्र. राष्ट्रध्वजस्य विषये किम् ज्ञातव्यम् ?
उ. भारतमातुः हस्ते त्रिवर्णयुतः राष्ट्रध्वजः विलसति — केशरः, श्वेतः, हरितः च वर्णाः तस्मिन् विराजन्ते, मध्ये च नीलवर्णं धर्मचक्रम् शोभते।
त्रिवर्णध्वजः - राष्ट्रध्वजम् धारयन्तः सैनिकाः (हिमालय-शिखरे)
चित्रम् — हिमालय-शिखरे राष्ट्रध्वजं धारयन्तः सैनिकाः (पाठात् गृहीतम्, स्रोतः NCERT)

वयम् अभ्यासं कुर्मः

Exercise Questions (Q.1 – Q.8)

पाठान्ते दत्तानां सर्वेषां अभ्यास-प्रश्नानां विस्तृत-समाधानम् अधोलिखितम् अस्ति।

एकपदेन / पदद्वयेन उत्तरम्

(क) पर्वतराजः कः ?
हिमालयः। (हिमालयः एव पर्वतानां राजा इति कथ्यते, यः भारतमातुः मस्तके मुकुटरूपेण शोभते।)
(ख) समुद्रः कस्याः चरणौ प्रक्षालयति ?
भारतमातुः। रत्नाकरः समुद्रः स्वयं भारतमातुः चरणौ प्रक्षालयति इति पाठे वर्णितम्।
(ग) त्रिवर्णयुतः ध्वजः कुत्र विलसति ?
भारतमातुः हस्ते त्रिवर्णयुतः राष्ट्रध्वजः विलसति।
(घ) ध्वजस्थितः केशरवर्णः अस्मान् किं वक्तुं प्रेरयति ?
जयतु सैनिकः‘ इति वक्तुम् अस्मान् प्रेरयति।
(ङ) कृषकबान्धवाः भारतभूमिं कैः सिञ्चन्ति ?
कृषकबान्धवाः भारतभूमिं स्व-स्वेदबिन्दुभिः (अपने पसीने की बूँदों से) सिञ्चन्ति।
(च) केषां धवलं यशः राष्ट्रध्वजस्य मध्ये विलसति ?
वैज्ञानिकानाम् धवलं यशः राष्ट्रध्वजस्य मध्ये धवलवर्णरूपेण विलसति।
(छ) सूर्यः कं विना नित्यं सञ्चरति ?
सूर्यः विरामं विना नित्यं सञ्चरति।

पूर्णवाक्येन उत्तरम्

(क) पवित्राः नद्यः काः ?
पवित्राः नद्यः — गङ्गा, यमुना, सरस्वती, सिन्धुः, ब्रह्मपुत्रः, गण्डकी, महानदी, नर्मदा, गोदावरी, कृष्णा, कावेरी इत्यादयः सन्ति।
(ख) विविधेभ्यः प्रदेशेभ्यः जनाः किमर्थम् आगच्छन्ति ?
विविधेभ्यः प्रदेशेभ्यः जनाः तीर्थक्षेत्राणां धूलिं ललाटे स्थापयितुम् आगच्छन्ति।
(ग) धर्मचक्रं कं भावं बोधयति ?
धर्मचक्रं ‘चलनीयं कर्तव्यपथे वै, न विरम, सततं चल‘ इति भावं बोधयति — अर्थात् कर्तव्य-मार्गे सदैव अग्रे गन्तव्यम्, कदापि रुक्तव्यं न, आलस्यस्य प्रमादस्य च स्थानं जीवने न भवति।
(घ) कृषकबान्धवानां परिश्रमेण भारतभूमिः कथं सञ्जाता ?
कृषकबान्धवानां परिश्रमेण भारतभूमिः हरितवर्णमयी समृद्धा सस्यश्यामला च सञ्जाता।
(ङ) विज्ञानस्य केषु क्षेत्रेषु भारतीयैः यशः प्राप्तम् ?
विज्ञानस्य अणुशास्त्रे, सङ्गणकशास्त्रे, चिकित्साशास्त्रे, अन्तरिक्षशास्त्रे, आयुधशास्त्रे इत्यादिषु क्षेत्रेषु भारतीयैः वैज्ञानिकैः महत् यशः प्राप्तम्।
(च) अन्ते सर्वे किं गीतं गायन्ति ?
अन्ते सर्वे इदं गीतं गायन्ति — “वयं बालका भारतभक्ताः, वयं बालिका भारतभक्ताः। वयं हि सर्वे भारतभक्ताः, पृथ्वीं स्वर्गं जेतुं शक्ताः॥
राष्ट्रध्वजेन सह बालकाः - त्रिवर्णध्वजः
चित्रम् — त्रिवर्णध्वजं धारयन्तः बालकाः (केशरः-श्वेतः-हरितः वर्णाः तथा मध्ये नीलं चक्रम्)

रेखाङ्कित-पदान् आश्रित्य प्रश्ननिर्माणम्

यथा — अस्माकं वत्सला भारतमाता। → केषां वत्सला भारतमाता ?
(क) समुद्रः भारतमातुः चरणौ प्रक्षालयति।
→ समुद्रः कस्याः चरणौ प्रक्षालयति ?
(ख) जनाः तीर्थक्षेत्राणां धूलिं ललाटे स्थापयन्ति।
→ जनाः तीर्थक्षेत्राणां धूलिं कुत्र स्थापयन्ति ?
(ग) वीराः भारतमातुः सर्वदा सेवां कृतवन्तः।
के भारतमातुः सर्वदा सेवां कृतवन्तः ?
(घ) ‘जयतु कृषकः’ इति वक्तुम् अस्मान् प्रेरयति।
किम् वक्तुम् अस्मान् प्रेरयति ?
(ङ) नदी कष्टानि सहमाना प्रवहति।
का कष्टानि सहमाना प्रवहति ?
(च) वयं गौरववर्धनार्थं प्रयत्नं कुर्मः।
→ वयं किमर्थं प्रयत्नं कुर्मः ?

विभक्ति अनुसारं रूप-निर्माणम् (वचन-रूपाणि)

शब्द-रूपाणि तीनों वचनों में
क्र.एकवचनम्द्विवचनम्बहुवचनम्विभक्तिः
(क)चरणम्चरणौचरणान्द्वितीया
(ख)नदीनद्यौनद्यःप्रथमा
(ग)ललाटेललाटयोःललाटेषुसप्तमी
(घ)देशायदेशाभ्याम्देशेभ्यःचतुर्थी
(ङ)चक्रम्चक्रेचक्राणिप्रथमा
(च)वैज्ञानिकेनवैज्ञानिकाभ्याम्वैज्ञानिकैःतृतीया
(छ)अहम्आवाम्वयम्प्रथमा
(ज)विज्ञानस्यविज्ञानयोःविज्ञानानाम्षष्ठी

इटैलिक (given) कोष्ठके प्रश्नपत्रे दत्तं पदम्, तथा हरित-वर्णे (green) पदम् अस्माभिः निर्मितम् उत्तरम् अस्ति।

वाक्यानाम् अनुवादः

(क) भारतभूमौ पवित्राः नद्यः प्रवहन्ति।
🇮🇳 हिन्दी: भारत की भूमि में पवित्र नदियाँ बहती हैं।
🌐 English: Sacred rivers flow in the land of India.
(ख) भारतस्य मस्तके हिमालयः मुकुटरूपेण शोभते।
🇮🇳 हिन्दी: भारत के मस्तक पर हिमालय मुकुट के रूप में सुशोभित होता है।
🌐 English: The Himalayas shine like a crown on India’s head.
(ग) भारतभूमौ श्रेष्ठाः पर्वताः विराजन्ते।
🇮🇳 हिन्दी: भारत की भूमि में श्रेष्ठ पर्वत विराजमान हैं।
🌐 English: Excellent mountains reside in the land of India.
(घ) राष्ट्रध्वजे केशरः, श्वेतः, हरितः च वर्णाः सन्ति।
🇮🇳 हिन्दी: राष्ट्रध्वज में केसरिया, सफ़ेद और हरा — ये रंग हैं।
🌐 English: The national flag has saffron, white and green colours.
(ङ) वयं भारते जन्म प्राप्तवन्तः।
🇮🇳 हिन्दी: हमने भारत में जन्म प्राप्त किया है।
🌐 English: We have taken birth in India.

विभक्तिं वचनं च निर्धारयत

शब्द → विभक्तिः → वचनम्
क्र.शब्दःविभक्तिःवचनम्
यथाभारतमाताप्रथमा विभक्तिःएकवचनम्
(क)नद्यःप्रथमा विभक्तिःबहुवचनम्
(ख)ललाटेसप्तमी विभक्तिःएकवचनम्
(ग)तीर्थक्षेत्राणाम्षष्ठी विभक्तिःबहुवचनम्
(घ)देशस्यषष्ठी विभक्तिःएकवचनम्
(ङ)बलिदानम्द्वितीया विभक्तिःएकवचनम्
(च)कृषीवलबान्धवाःप्रथमा विभक्तिःबहुवचनम्
(छ)अस्मान्द्वितीया विभक्तिःबहुवचनम्
(ज)क्षेत्रेषुसप्तमी विभक्तिःबहुवचनम्
प्रश्नक्रमाङ्के (क) मूलपत्रे “नद्यः” इति पदं दत्तम् आसीत् (न तु प्रथम पङ्क्तौ “भारतमाता” इति उदाहरणम् एव)।

पाठे प्रयुक्तानि क्रियापदानि

शृणुमःजानीमःअस्तिवर्तते लिखितवान्विलसतिशोभतेविराजन्ते प्रवहन्तिआगच्छन्तिसूचयतिप्रेरयति गायन्तिसिञ्चन्तिबोधयतिकुर्मः

पाठे उपर्युक्ताः क्रियापदाः विविधेषु वाक्येषु प्रयुक्ताः सन्ति; प्रथमं पदं “शृणुमः” उदाहरणरूपेण दत्तम् आसीत्।

लट्-लकारे त्रिषु पुरुषेषु त्रिषु वचनेषु रूपाणि

धातुः — भू (होना / to be, become) — भवति
पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःभवतिभवतःभवन्ति
मध्यमपुरुषःभवसिभवथःभवथ
उत्तमपुरुषःभवामिभवावःभवामः
धातुः — अस् (होना / to be) — अस्ति
पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःअस्तिस्तःसन्ति
मध्यमपुरुषःअसिस्थःस्थ
उत्तमपुरुषःअस्मिस्वःस्मः
धातुः — इष् (चाहना / to wish) — इच्छति
पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःइच्छतिइच्छतःइच्छन्ति
मध्यमपुरुषःइच्छसिइच्छथःइच्छथ
उत्तमपुरुषःइच्छामिइच्छावःइच्छामः
धातुः — आगम् (आना / to come) — आगच्छति
पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःआगच्छतिआगच्छतःआगच्छन्ति
मध्यमपुरुषःआगच्छसिआगच्छथःआगच्छथ
उत्तमपुरुषःआगच्छामिआगच्छावःआगच्छामः

सन्दर्भ-चित्राणि

Reference Illustrations from the chapter
धर्मचक्रम् - चतुर्विंशति अराः
धर्मचक्रम् — इदं चक्रं चतुर्विंशतिः (२४) अरैः युक्तम् अस्ति, यत् ‘सततं चल’ इति भावं बोधयति।
कृषकः - हरितवर्णः - जयतु कृषकः
कृषकबान्धवाः स्व-स्वेदबिन्दुभिः भारतभूमिं सिञ्चन्ति — हरितवर्णस्य प्रतीकम्।
वैज्ञानिकः - धवलवर्णः - जयतु वैज्ञानिकः
वैज्ञानिकानां धवलं यशः — शान्ति, सत्य तथा प्रगतेः प्रतीकम् — ध्वजमध्ये विलसति।
भारतमाता - तीर्थक्षेत्राणि नद्यः पर्वतमालाः च
भारतमाता — प्राचीनानि तीर्थक्षेत्राणि, पवित्राः नद्यः, श्रेष्ठाः पर्वतमालाः च दर्शयत् मानचित्रम्।
वन्दे मातरम्

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!