अष्टमः पाठः – सः एव महान् चित्रकारः (Chapter 8 – Saḥ Eva Mahān Citrakāraḥ) | Class 6 Sanskrit (Deepakam) | NCERT Solutions

सः एव महान् चित्रकारः — पूर्ण-समाधानम् | कक्षा ६ दीपकम्

NCERT · दीपकम् · कक्षा ६ · संस्कृतम्

अष्टमः पाठः — सः एव महान् चित्रकारः

प्रकृति के रंग, वर्ण-नाम और संवाद — पाठ्यगत प्रश्न, अभ्यास (१–६), योग्यताविस्तरः एवं परियोजनाकार्यम्, सब उत्तर-सहित।

पूर्ण-समाधानम्प्रश्न १–६ वर्ण-पट्टिकाअमरकोश-वर्गीकरणम्

वर्ण-पट्टिका — पाठस्य सर्वे वर्णाः

Colour palette of the lesson

कस्यचिद् वर्णस्य उपरि स्पृशन्तु — तस्य संस्कृत-नाम उदाहरणानि च पश्यन्तु।

किसी भी रंग को दबाइए — उसका संस्कृत नाम, हिन्दी अर्थ और पाठ के उदाहरण दिख जाएँगे। यही रंग-नाम प्रश्न ३, ४, ५ और ६ में काम आएँगे।

रक्तवर्णः
लाल · Red
जपापुष्पम् · शुकस्य चञ्चुः · पाटलपुष्पम्

ध्यातव्यम्: संस्कृत में रंग बताने के दो तरीके हैं — केवल वर्ण-नाम (रक्तः, हरितः) अथवा ‘वर्णः’ जोड़कर (रक्तवर्णः, हरितवर्णः)। दोनों सही हैं।

पाठ्यगत प्रश्नाः (Intext)

पृष्ठ ८९–९२, ९५–९६

Intext 1 · पृष्ठ ८९

उपरि प्रदर्शितम् उद्यानं किम् अस्ति? तत्र किं किं वर्तते?

अमृत-उद्यानम् — राष्ट्रपतिभवनस्य परिसरे
अमृत-उद्यानम् (पृष्ठ ८९)

पाठस्य आरम्भः — मूलम् एवं अर्थः

उद्यानस्य चित्रम् उपरि प्रदर्शितम्। एतत् राष्ट्रपतिभवनस्य परिसरे विद्यमानम् अमृत-उद्यानम् अस्ति। अत्र शताधिक-प्रकारकाणि पाटलपुष्पाणि सन्ति। सामान्यतः पञ्चसहस्राधिकानि ऋतुपुष्पाणि च सन्ति। रमणीयः निसर्गः विविधैः वर्णैः सर्वेषां चित्तम् आकर्षति। अस्मिन् पाठे तादृशानां वर्णानां परिचयं प्राप्नुमः।

ऊपर उद्यान का चित्र दिखाया गया है। यह राष्ट्रपति भवन के परिसर में स्थित अमृत उद्यान है। यहाँ सौ से अधिक प्रकार के गुलाब हैं और सामान्यतः पाँच हज़ार से अधिक ऋतु-पुष्प भी हैं। सुन्दर प्रकृति अपने विविध रंगों से सबका मन आकर्षित करती है। इस पाठ में हम उन्हीं रंगों का परिचय प्राप्त करेंगे।
$$\text{paatala-pushpani} > 100, \qquad \text{ritu-pushpani} > 5000$$
Intext 2 · पृष्ठ ९०–९१

संवादः — शिक्षकः छात्राः च वर्णानां विषये वदन्ति

Advertisement

पूरा संवाद हिन्दी अर्थ के साथ। यही संवाद प्रश्न १ और २ का आधार है।

वृक्षे काकः शुकः च
वृक्षे खगाः (पृष्ठ ९०)
शिक्षकः

वयम् अत्र किं किं पश्यामः?

हम यहाँ क्या-क्या देख रहे हैं?
श्रद्धा

सर्वत्र विविधानि पुष्पाणि, हरितानि पर्णानि, खगाः, जन्तवः च सन्ति इति पश्यामः।

हम देखते हैं कि चारों ओर तरह-तरह के फूल, हरे पत्ते, पक्षी और जीव-जन्तु हैं।
शिक्षकः

सत्यम्। एवमेव तेषां वर्णाः अपि विविधाः। यथा श्रद्धा वदति ‘हरितानि पर्णानि’ इति, अत्र पर्णस्य कः वर्णः?

Advertisement
ठीक है। इसी तरह उनके रंग भी अलग-अलग हैं। जैसे श्रद्धा कहती है ‘हरे पत्ते’ — तो यहाँ पत्ते का रंग कौन-सा है?
छात्राः

(सर्वे) हरितः।

(सब) हरा।
श्रद्धा

अत्र वृक्षस्य उपरि शुकः अस्ति। सः अपि हरितवर्णेन शोभते।

यहाँ पेड़ के ऊपर तोता है। वह भी हरे रंग से सुशोभित है।
शिक्षकः

श्रद्धे! भवत्याः इष्टवर्णः हरितः इति चिन्तयामि। अत एव हरितवर्णम् एव पश्यति खलु।

श्रद्धा! मुझे लगता है तुम्हारा पसन्दीदा रंग हरा है। इसीलिए तुम्हें हरा रंग ही दिखाई देता है।
मेधा

आचार्य! अत्र काकः अपि अस्ति, यस्य वर्णः कृष्णः। एवं पिकस्य अपि वर्णः कृष्णः।

आचार्य जी! यहाँ कौआ भी है, जिसका रंग काला है। इसी तरह कोयल का रंग भी काला है।
शिक्षकः

आम्। उत्तमं निरीक्षणं भवत्याः। छात्राः! पश्यन्तु, अत्र पुष्पाणि अपि सन्ति। मनीषे! पश्यतु जपापुष्पम्। वदतु, अस्य वर्णः कः?

हाँ। तुम्हारा निरीक्षण बहुत अच्छा है। बच्चो! देखो, यहाँ फूल भी हैं। मनीषा! गुड़हल का फूल देखो। बताओ, इसका रंग कौन-सा है?
मनीषा

रक्तवर्णः आचार्य! शुकस्य चञ्चुः अपि रक्तवर्णा। पाटलपुष्पम् अपि रक्तवर्णेन युक्तम्।

लाल रंग, आचार्य जी! तोते की चोंच भी लाल है। गुलाब का फूल भी लाल रंग वाला है।
शिक्षकः

शोभनम्। चित्रवर्णाः शुकाः अपि अत्र सन्ति इति जानन्ति किम्?

बहुत अच्छा। क्या तुम जानते हो कि रंग-बिरंगे तोते भी होते हैं?
आदित्यः

आचार्य! ते कीदृशाः भवन्ति? वयं द्रष्टुम् इच्छामः।

आचार्य जी! वे कैसे होते हैं? हम देखना चाहते हैं।
गजः व्याघ्रः वानरः च
पृष्ठ ९० — जन्तवः
इन्द्रधनुः चित्रवर्णाः शुकाः च
इन्द्रधनुः · चित्रवर्णाः शुकाः (पृष्ठ ९१)
शिक्षकः

तादृशान् शुकान् वयं प्रायः जन्तुशालायां पश्यामः। तेषां पक्षाः नीलाः पीताः रक्ताः च भवन्ति।

वैसे तोते हम प्रायः चिड़ियाघर में देखते हैं। उनके पंख नीले, पीले और लाल होते हैं।
मञ्जुलः

आचार्य! पाटलपुष्पाणि अपि विविधवर्णयुक्तानि भवन्ति। मम उद्याने पीतवर्णानि, श्वेतवर्णानि, नीललोहितवर्णानि, केसरवर्णानि च पाटलपुष्पाणि सन्ति।

आचार्य जी! गुलाब के फूल भी अलग-अलग रंगों वाले होते हैं। मेरे बगीचे में पीले, सफ़ेद, जामुनी और केसरिया रंग के गुलाब हैं।
शिक्षकः

उत्तमम्। पश्यन्तु, हंसः श्वेतः। तथा अन्ये के श्वेतवर्णाः?

बहुत अच्छा। देखो, हंस सफ़ेद है। और कौन-कौन सफ़ेद रंग के हैं?
मेधा

आचार्य! बकः शशः च। तथा भवतः प्रावारकम् अपि श्वेतम्।

आचार्य जी! बगुला और खरगोश। और आपका कोट भी सफ़ेद है।
शिक्षकः

आम्। सम्यक्। सर्वे स्वस्य अन्येषां च वस्त्राणां वर्णान् अवलोकयन्तु।

हाँ, ठीक है। सब अपने और दूसरों के कपड़ों के रंग देखो।
मञ्जुलः

आचार्य! इन्द्रधनुः तु बहुवर्णमयं खलु। तत्र सप्त वर्णाः भवन्ति।

आचार्य जी! इन्द्रधनुष तो बहुत रंगों वाला है। उसमें सात रंग होते हैं।
शिक्षकः

आम्। सर्वः अपि निसर्गः बहुवर्णमयः। तेन संसारः सुन्दरः। वर्णैः एव अस्माकं जीवनम् अपि मनोरमं भवति। तत्र ‘वर्णयोजकः चित्रकारः कः’ इति जानन्ति किम्?

हाँ। सारी प्रकृति ही बहुरंगी है। इसी से संसार सुन्दर है। रंगों से ही हमारा जीवन भी मनोहर होता है। तो बताओ, ‘रंगों को जोड़ने वाला चित्रकार कौन है’ — यह जानते हो?
सर्वे

(उच्चैः) परमेश्वरः, परमेश्वरः।

(ज़ोर से) परमेश्वर, परमेश्वर।
शिक्षकः

आम्। सः एव महान् चित्रकारः।

हाँ। वही महान् चित्रकार है।
अजाः शशाः हंसाः च
पृष्ठ ९१ — अजाः · शशाः · हंसाः
Intext 3 · पृष्ठ ९२

वयं शब्दार्थान् जानीमः — मातृभाषया अर्थं लिखन्तु।

शब्दार्थ-तालिका (अन्तिम स्तम्भ भरा हुआ)

शब्दःसंस्कृत-अर्थःEnglishमातृभाषया अर्थः (हिन्दी)
निसर्गःप्रकृतिःNatureप्रकृति
हरितानिहरितवर्णानिGreenहरे रंग के
पर्णानिपत्राणिLeavesपत्ते
जन्तवःप्राणिनःAnimalsप्राणी / जीव-जन्तु
खगाःपक्षिणःBirdsपक्षी
वर्णमयःवर्णयुक्तःColourfulरंगीन
शुकःकीरःParrotतोता
इष्टवर्णःप्रियवर्णःFavourite Colourपसन्दीदा रंग
काकःवायसःCrowकौआ
पिकःकोकिलःCuckooकोयल
जपापुष्पम्जपापुष्पम्Hibiscusगुड़हल
चञ्चुःखगतुण्डःBeakचोंच
रक्तःरक्तवर्णःRedलाल
नीलःनीलवर्णःBlueनीला
पीतःपीतवर्णःYellowपीला
पक्षाःपक्षसमूहःWingsपंख
जन्तुशालायाम्जन्तुशालायाम्In the zooचिड़ियाघर में
पाटलपुष्पम्पाटलपुष्पम्Roseगुलाब
श्वेतम्शुक्लवर्णः / धवलवर्णःWhiteश्वेत / सफ़ेद
नीललोहितम्नीललोहितम्Purpleजामुनी
केसरम्केसरवर्णःSaffronकेसरिया
पाटलम्पाटलवर्णःPinkगुलाबी
हंसःमरालःSwanहंस
बकःबकःHeronबगुला
शशःशशकःRabbitखरगोश
प्रावारकम्प्रावारःCoatकोट
Intext 4 · पृष्ठ ९५ (योग्यताविस्तरः)

सायङ्काले त्वम्बरकोणे — पद्यस्य भावः कः?

Advertisement

यह पद्य यह भाव प्रकट करता है कि ‘सभी रंगों के रचयिता भगवान् परमेश्वर ही हैं’।

सायङ्काले वर्णविचित्रं गगनम्
सायङ्काले वर्णविचित्रं गगनम् (पृष्ठ ९५)

पद्यम् एवं अर्थः

सायङ्काले त्वम्बरकोणे विलिखति प्रकृतिर्वर्णचयम्।
रक्तं पीतं श्वेतं चित्रं नीलं शबलितदृग्विभवम्॥

सन्ध्या के समय आकाश के कोने में प्रकृति रंगों का ढेर चित्रित कर देती है — लाल, पीला, सफ़ेद, चित्र-विचित्र और नीला — जो आँखों के लिए मिला-जुला वैभव है।

वर्णविचित्रं गगनं दृष्ट्वा बालास्सर्वे तुष्यन्ति।
द्रष्टुं सर्वं तस्य समीपं विहगाः विविधाः गच्छन्ति॥

रंग-बिरंगा आकाश देखकर सभी बच्चे प्रसन्न हो जाते हैं। उस सब को देखने के लिए तरह-तरह के पक्षी उसके पास जाते हैं।

प्रतिनिमिषं स हि वर्णविशेषः नव्यं रूपं प्राप्नोति।
गन्धर्वाणां मन्दिरमित्यपि सर्वे मर्त्याः कथयन्ति॥

वह विशेष रंग हर पल नया रूप धारण कर लेता है। सभी मनुष्य इसे ‘गन्धर्वों का मन्दिर’ भी कहते हैं।

प्रतिदिनमेवं गगने सायं रचिता वर्णाः केनैते।
तुभ्यं सर्वकलाकाराणां नायक! भगवन् नमो नमः॥

प्रतिदिन इस प्रकार साँझ को आकाश में ये रंग किसने रचे? हे सब कलाकारों के नायक भगवन्! आपको बार-बार नमस्कार। — कल्लडि-कृष्णन् कुट्टी
Intext 5 · पृष्ठ ९६

अमरकोशे वर्णानां वर्गीकरणम् (धीवर्गः)

अमरकोश में एक ही रंग के अनेक पर्यायवाची शब्द दिए गए हैं।

श्लोकाः एवं पर्यायाः

शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः।
अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः॥

श्वेतवर्णस्य पर्यायाः (१३): शुक्लः, शुभ्रः, शुचिः, श्वेतः, विशदः, श्येतः, पाण्डरः, अवदातः, सितः, गौरः, वलक्षः, धवलः, अर्जुनः।

हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः।
कृष्णे नीलासितश्यामकालश्यामलमेचकाः॥

पाण्डु (धूसर) वर्णस्य: हरिणः, पाण्डुरः, पाण्डुः, ईषत्पाण्डुः, धूसरः।
कृष्णवर्णस्य: कृष्णः, नीलः, असितः, श्यामः, कालः, श्यामलः, मेचकः।

पीतो गौरो हरिद्राभः पलाशो हरितो हरित्।
लोहितो रोहितो रक्तः शोणः कोकनदच्छविः॥

पीतवर्णस्य: पीतः, गौरः, हरिद्राभः, पालाशः।
हरितवर्णस्य: हरितः, हरित्।
रक्तवर्णस्य: लोहितः, रोहितः, रक्तः, शोणः, कोकनदच्छविः।

अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः।
श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते॥

अरुणवर्णस्य: रक्तोत्पलाभः, शोणः, अव्यक्तरागः, ईषद्रक्तः, अरुणः।
पाटलवर्णस्य: श्वेतरक्तः, पाटलः।
कृष्णलोहितस्य: श्यावः, कपिशः, धूम्रः, धूमलः, कृष्णलोहितः।

कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ।
चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे॥

कपिलवर्णस्य: कडारः, कपिलः, पिङ्गः, पिशङ्गः, कद्रुः, पिङ्गलः।
विचित्रवर्णस्य: चित्रम्, किर्मीरः, कल्माषः, शबलः, कर्बुरः।

सङ्केतः: ‘पाटलः’ का अर्थ है श्वेत + रक्त का मिश्रण — इसीलिए यह गुलाबी रंग कहलाता है। इसी तरह ‘कृष्णलोहितः’ = काला + लाल = जामुनी।

वयम् अभ्यासं कुर्मः (Exercise)

प्रश्न १ – ६ · पृष्ठ ९३–९४

प्रश्न १

पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु —

पाठ के आधार पर प्रश्नों के उत्तर एक शब्द में लिखिए।

उत्तराणि

क्रमःप्रश्नःउत्तरम् (एकपदेन)पाठात् प्रमाणम्
(क)जपापुष्पस्य वर्णः कः?रक्तवर्णःरक्तवर्णः आचार्य!
(ख)शुकः केन वर्णेन शोभते?हरितवर्णेनसः अपि हरितवर्णेन शोभते
(ग)श्रद्धायाः इष्टवर्णः कः?हरितःभवत्याः इष्टवर्णः हरितः
(घ)कः महान् चित्रकारः?परमेश्वरःसः एव महान् चित्रकारः
(ङ)आदित्यः कान् द्रष्टुम् इच्छति?चित्रवर्णान् शुकान्ते कीदृशाः भवन्ति? वयं द्रष्टुम् इच्छामः
प्रश्न २

पाठस्य आधारेण प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु —

पूरे वाक्य में उत्तर लिखिए।

उत्तराणि

  • (क) आचार्यस्य प्रावारकस्य वर्णः कः?
    आचार्यस्य प्रावारकस्य वर्णः श्वेतः अस्ति।
    आचार्य के कोट का रंग सफ़ेद है।
  • (ख) कुत्र विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति?
    मञ्जुलस्य उद्याने विविधेषु वर्णेषु पाटलपुष्पाणि सन्ति।
    मञ्जुल के बगीचे में अलग-अलग रंगों के गुलाब हैं — पीत, श्वेत, नीललोहित और केसर।
  • (ग) किं बहुवर्णमयम् इति मञ्जुलस्य अभिप्रायः?
    इन्द्रधनुः बहुवर्णमयम् इति मञ्जुलस्य अभिप्रायः। तत्र सप्त वर्णाः भवन्ति।
    मञ्जुल का मत है कि इन्द्रधनुष बहुरंगी है; उसमें सात रंग होते हैं।
  • (घ) चित्रवर्णशुकाः कीदृशाः भवन्ति?
    चित्रवर्णशुकानां पक्षाः नीलाः पीताः रक्ताः च भवन्ति।
    रंग-बिरंगे तोतों के पंख नीले, पीले और लाल होते हैं।
  • (ङ) कस्य कस्य वर्णः कृष्णः?
    काकस्य पिकस्य च वर्णः कृष्णः अस्ति।
    कौए और कोयल का रंग काला है।
प्रश्न ३

उचितवर्णेन सह शब्दं योजयन्तु —

रंग के धब्बे को सही वर्ण-शब्द से मिलाइए।

प्रश्न ३ — वर्ण-चिह्नानि तथा शब्दाः
प्रश्न-चित्रम् (पृष्ठ ९३)

उत्तरम् — सही जोड़े

@edugrownरक्तवर्णःनीलवर्णःकृष्णवर्णःहरितवर्णःकेसरवर्णःश्वेतवर्णःपाटलवर्णःनीललोहितः
वर्ण-शब्दःवर्णःहिन्दी
रक्तवर्णःलाल
नीलवर्णःनीला
कृष्णवर्णःकाला
हरितवर्णःहरा
केसरवर्णःकेसरिया
श्वेतवर्णःसफ़ेद
पाटलवर्णःगुलाबी
नीललोहितःजामुनी
प्रश्न ४

राष्ट्रध्वजस्य समुचितैः वर्णैः अधः प्रदत्तेषु वाक्येषु रिक्तस्थानानि पूरयन्तु —

राष्ट्रध्वज के सही रंगों से रिक्त स्थान भरिए।

भारतस्य राष्ट्रध्वजः
राष्ट्रध्वजः (पृष्ठ ९४)
@edugrown(क) उपरि — केसरः(ख) मध्ये — श्वेतः(ग) अधः — हरितः(घ) केन्द्रे — नीलः (अशोकचक्रम्)

उत्तराणि

क्रमःवाक्यम्उत्तरम्हिन्दी
(क)उपरि ___ वर्णः अस्ति।केसरःऊपर केसरिया
(ख)मध्ये ___ वर्णः अस्ति।श्वेतःबीच में सफ़ेद
(ग)अधः ___ वर्णः अस्ति।हरितःनीचे हरा
(घ)ध्वजस्य केन्द्रे ___ वर्णः अस्ति।नीलःबीच के चक्र में नीला

ध्यातव्यम्: ध्वज के केन्द्र में अशोकचक्रम् है, जिसमें चतुर्विंशतिः (२४) आराः (तीलियाँ) होती हैं और उसका वर्ण नीलः है।

$$\text{ashoka-chakra} \Rightarrow 24 \ \text{arah}$$
प्रश्न ५

प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु —

उत्तराणि

क्रमःप्रश्नःउत्तरम्हिन्दी
(क)केशानां वर्णः कः?कृष्णःबाल — काले
(ख)आकाशस्य वर्णः कः?नीलःआकाश — नीला
(ग)कदलीफलस्य वर्णः कः?पीतःकेला — पीला
(घ)तृणस्य वर्णः कः?हरितःघास — हरी
(ङ)महिषस्य वर्णः कः?कृष्णःभैंसा — काला
(च)मयूरस्य वर्णः कः?नीलःमोर — नीला
प्रश्न ६

रेखाचित्रेषु निर्दिष्टान् वर्णान् पूरयन्तु —

रेखाचित्रों में बताए गए रंग भरिए। नीचे हर चित्र के साथ उसका निर्दिष्ट रंग दिखाया गया है।

उत्तराणि — कौन-सा चित्र किस रंग से भरें

शुकः
शुकःतोता हरितः
पाटलपुष्पम्
पाटलपुष्पम्गुलाब पाटलः
युतकम्
युतकम्कमीज़ नीलः
जपापुष्पम्
जपापुष्पम्गुड़हल रक्तः
नारङ्गम्
नारङ्गम्सन्तरा केसरः
धेनुः
धेनुःगाय श्वेतः
कदलीफलम्
कदलीफलम्केला पीतः
काकः
काकःकौआ कृष्णः

यह क्रियात्मक प्रश्न है — रेखाचित्रों में स्वयं रंग भरिए। ऊपर केवल यह दिखाया गया है कि किस चित्र में कौन-सा रंग भरना है।

परियोजनाकार्यम्

पृष्ठ ९७ · पुष्पाणि

परियोजना १

उपरितनानां चित्राणां नामानि वर्णाः च के इति अभिजानन्तु लिखन्तु च।

ऊपर दिए चित्रों के नाम और रंग पहचानकर लिखिए।

उत्तराणि

पाटलम्
पाटलम्गुलाब · Rose रक्तवर्णम्
गन्धपुष्पम्
गन्धपुष्पम्गेंदा · Marigold केसरवर्णम्
सूर्यकान्तिः
सूर्यकान्तिःसूरजमुखी · Sunflower पीतवर्णा
कमलम्
कमलम्कमल · Lotus पाटलवर्णम्
चम्पकः
चम्पकःचम्पा · Champak श्वेतवर्णः
कर्णोरः
कर्णोरःकन्ना · Calla lily पीतवर्णः
अपराजिता
अपराजिताअपराजिता · Butterfly pea नीललोहितवर्णा
जपाकुसुमम्
जपाकुसुमम्गुड़हल · Hibiscus रक्तवर्णम्
मल्लिका
मल्लिकाचमेली · Jasmine श्वेतवर्णा

वाक्य-रूपेण लिखें तो: एतत् पाटलम्। अस्य वर्णः रक्तः। — इसी प्रकार सभी नौ पुष्पों के लिए वाक्य बनाइए।

परियोजना २

कक्षायां विद्यमानानां १० वस्तूनां नामानि वर्णान् च अभिजानन्तु लिखन्तु च।

अपनी कक्षा की १० वस्तुओं के नाम और रंग पहचानकर लिखिए। यह स्वयं करने योग्य प्रश्न है — नीचे नमूना दिया गया है।

नमूना-उत्तरम् (Sample)

क्रमःवस्तुहिन्दीवर्णःवाक्यम्
श्यामपट्टःश्यामपट्टकृष्णःश्यामपट्टस्य वर्णः कृष्णः।
सुधाखण्डःचॉकश्वेतःसुधाखण्डस्य वर्णः श्वेतः।
पुस्तकम्पुस्तकनीलःपुस्तकस्य वर्णः नीलः।
लेखनीकलमरक्तःलेखन्याः वर्णः रक्तः।
आसन्दःकुर्सीपीतःआसन्दस्य वर्णः पीतः।
उत्पीठिकामेज़कपिलःउत्पीठिकायाः वर्णः कपिलः।
द्वारम्दरवाज़ाहरितःद्वारस्य वर्णः हरितः।
वातायनम्खिड़कीश्वेतःवातायनस्य वर्णः श्वेतः।
व्यजनम्पंखाकेसरःव्यजनस्य वर्णः केसरः।
१०मार्जनीझाड़ननीललोहितःमार्जन्याः वर्णः नीललोहितः।

अपनी कक्षा के अनुसार बदलिए — ऊपर के रंग केवल उदाहरण हैं। अपनी कक्षा में जो वस्तु जिस रंग की हो, वही लिखिए।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!