संस्कृतम् · दीपकम् · कक्षा ७
द्वितीयः पाठः — नित्यं पिबाम: सुभाषितरसम्
श्लोक-अर्थ एवं सम्पूर्ण अभ्यास-समाधान
📗 NCERT · अध्याय 2
📖 श्लोक, अन्वय एवं भावार्थ
श्लोक 1पाँच ‘व’कार — सम्मान का सूत्र
वस्त्रेण वपुषा वाचा विद्यया विनयेन च।
वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः॥
वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः॥
पदच्छेदः — वस्त्रेण वपुषा वाचा विद्यया विनयेन च वकारैः पञ्चभिः युक्तः नरः भवति पूजितः।
अन्वयः — वस्त्रेण वपुषा वाचा विद्यया विनयेन च (इति एतैः) पञ्चभिः वकारैः युक्तः नरः पूजितः भवति।
भावार्थः — जो मनुष्य अच्छे वस्त्र धारण करता है, जिसका वपु (शरीर) स्वस्थ है, जो सदा मधुर एवं हितकर वाणी बोलता है, जो विद्या में लगा रहता है और विनयपूर्वक व्यवहार करता है — इन पाँच ‘व’कारों से युक्त मनुष्य संसार में सम्मान प्राप्त करता है।
व — वस्त्रव — वपुव — वाणीव — विद्याव — विनय
श्लोक 2छह त्यागने योग्य दोष
षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता॥
निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता॥
पदच्छेदः — षड् दोषाः पुरुषेण इह हातव्याः भूतिम् इच्छता निद्रा तन्द्रा भयम् क्रोधः आलस्यम् दीर्घसूत्रता।
अन्वयः — इह भूतिम् इच्छता पुरुषेण निद्रा तन्द्रा भयं क्रोधः आलस्यं दीर्घसूत्रता (च इत्येते) षड् दोषाः हातव्याः।
भावार्थः — जो मनुष्य ऐश्वर्य, वैभव और उन्नति चाहता है, उसे ये छह दोष अवश्य त्याग देने चाहिए — निद्रा (अधिक सोना), तन्द्रा (सुस्ती/ऊँघ), भय, क्रोध, आलस्य और दीर्घसूत्रता (काम को टालते रहना)। ये सभी उन्नति में बाधक हैं।
श्लोक 3शुद्धि के चार साधन
अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति।
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति॥
विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति॥
पदच्छेदः — अद्भिः गात्राणि शुध्यन्ति मनः सत्येन शुध्यति विद्या-तपोभ्यां भूतात्मा बुद्धिः ज्ञानेन शुध्यति।
अन्वयः — गात्राणि अद्भिः शुध्यन्ति। मनः सत्येन शुध्यति। भूतात्मा विद्यातपोभ्यां शुध्यति। बुद्धिः ज्ञानेन शुध्यति।
भावार्थः — प्रतिदिन स्नान से मनुष्य का शरीर जल द्वारा स्वच्छ होता है, मन सत्य बोलने से पवित्र होता है, आत्मा विद्या और तप से शुद्ध होती है, तथा बुद्धि ज्ञान से निर्मल होती है। अतः मनुष्य को नित्य स्नान, सत्यभाषण, विद्याभ्यास और ज्ञानार्जन करना चाहिए।
श्लोक 4भारतवर्ष का भौगोलिक परिचय
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद् भारतं नाम भारती यत्र सन्ततिः॥
वर्षं तद् भारतं नाम भारती यत्र सन्ततिः॥
पदच्छेदः — उत्तरं यत् समुद्रस्य हिमाद्रेः च एव दक्षिणं वर्षं तद् भारतं नाम भारती यत्र सन्ततिः।
अन्वयः — यत् समुद्रस्य उत्तरं हिमाद्रेः च दक्षिणं तद् एव भारतं नाम वर्षम्, यत्र भारती सन्ततिः (अस्ति)।
भावार्थः — इस सुभाषित में सुभाषितकार भारत का भौगोलिक स्वरूप बताते हैं। हिन्द महासागर के उत्तर में और हिमालय के दक्षिण में जो भूभाग स्थित है, उसका नाम भारतवर्ष है। यहाँ के निवासी ‘भारती’ अर्थात् भारतीय कहलाते हैं।
श्लोक 5निरंतर अभ्यास की शक्ति
जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च॥
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च॥
पदच्छेदः — जलबिन्दु-निपातेन क्रमशः पूर्यते घटः सः हेतुः सर्वविद्यानां धर्मस्य च धनस्य च।
अन्वयः — घटः क्रमशः जलबिन्दु-निपातेन पूर्यते, सः हेतुः सर्वविद्यानां धर्मस्य च धनस्य च भवति।
भावार्थः — जैसे जल की एक-एक बूँद निरंतर गिरने से खाली घड़ा भी भर जाता है, वैसे ही जीवन में निरंतर अभ्यास से एक साधारण मनुष्य भी हर प्रकार की विद्या, धर्म और धन प्राप्त कर लेता है। यही ‘क्रमशः अभ्यास’ उन सबका कारण (हेतु) है।
श्लोक 6बुद्धि-विकास के पाँच उपाय
यः पठति लिखति पश्यति परिपृच्छति पण्डितानुपाश्रयति।
तस्य दिवाकरकिरणैः नलिनीदलमिव विस्तारिता बुद्धिः॥
तस्य दिवाकरकिरणैः नलिनीदलमिव विस्तारिता बुद्धिः॥
पदच्छेदः — यः पठति लिखति पश्यति परिपृच्छति पण्डितान् उपाश्रयति तस्य दिवाकरकिरणैः नलिनीदलम् इव विस्तारिता बुद्धिः।
अन्वयः — यः पठति लिखति पश्यति परिपृच्छति पण्डितान् उपाश्रयति च तस्य बुद्धिः दिवाकरकिरणैः नलिनीदलम् इव विस्तारिता भवति।
भावार्थः — आत्मविकास के लिए सदा श्रेष्ठ जनों की संगति करनी चाहिए। जो निरंतर पढ़ता है (स्वाध्याय करता है), लिखता है, देखता/निरीक्षण करता है, अनेक प्रश्न पूछता है (संशय दूर करता है) और विद्वानों के समीप रहता है — उसकी बुद्धि सूर्य की किरणों से खिले कमल-पत्र की भाँति पूर्ण रूप से विकसित हो जाती है।
श्लोक 7मधुर वचन की महिमा
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता॥
तस्मात् तदेव वक्तव्यं वचने का दरिद्रता॥
पदच्छेदः — प्रियवाक्य-प्रदानेन सर्वे तुष्यन्ति जन्तवः तस्मात् तद् एव वक्तव्यं वचने का दरिद्रता।
अन्वयः — सर्वे जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति, तस्मात् तदेव वक्तव्यं, वचने का दरिद्रता?
भावार्थः — मधुर वचन (प्रिय वाणी) से सभी प्राणी, हमारे सभी मित्र, माता, पिता, भाई आदि प्रसन्न हो जाते हैं। मधुर बोलने से कोई हानि नहीं होती। अतः सदा मधुर ही बोलना चाहिए — बोलने में कैसी कंजूसी? मधुर वचन कहने में कभी संकोच नहीं करना चाहिए।
श्लोक 8आलस्य शत्रु, उद्यम मित्र
आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥
पदच्छेदः — आलस्यं हि मनुष्याणां शरीरस्थः महान् रिपुः न अस्ति उद्यमसमः बन्धुः कृत्वा यं न अवसीदति।
अन्वयः — आलस्यं हि मनुष्याणां शरीरस्थः महान् रिपुः (अस्ति)। उद्यमसमः बन्धुः नास्ति, (जनः) यं (उद्यमं) कृत्वा न अवसीदति।
भावार्थः — आलस्य मनुष्य के शरीर में ही विद्यमान सबसे बड़ा शत्रु है; यही हमारे कार्य पूरे करने में बाधा डालता है। इसके विपरीत उद्यम (परिश्रम) के समान कोई सच्चा मित्र/बन्धु नहीं, क्योंकि जो परिश्रम करता है वह कभी दुःखी नहीं होता (न अवसीदति)।
श्लोक 9अठारह पुराणों का सार
अष्टादशपुराणेषु व्यासस्य वचनद्वयम्।
परोपकारः पुण्याय पापाय परपीडनम्॥
परोपकारः पुण्याय पापाय परपीडनम्॥
पदच्छेदः — अष्टादश-पुराणेषु व्यासस्य वचन-द्वयं परोपकारः पुण्याय पापाय परपीडनम्।
अन्वयः — अष्टादशपुराणेषु व्यासस्य वचनद्वयम् (अस्ति), परोपकारः पुण्याय परपीडनं पापाय (च भवति)।
भावार्थः — महर्षि वेदव्यास के अठारह पुराणों का सार केवल दो वचनों में है — दूसरों का उपकार करने से पुण्य मिलता है, और दूसरों को पीड़ा देने से पाप लगता है। अतः हमें सदा परोपकार करना चाहिए और किसी को पीड़ा कभी नहीं देनी चाहिए।
✍️ अभ्यासः — वयम् अभ्यासं कुर्मः
प्रश्न 1 अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु।
(नीचे दिए प्रश्नों के उत्तर एक शब्द में लिखिए।)
(क) नरः कतिभिः वकारैः पूजितः भवति?
उत्तरम् — पञ्चभिः (वकारैः)।
(ख) पुरुषेण कति दोषाः हातव्याः?
उत्तरम् — षड् (षट् दोषाः)।
(ग) बुद्धिः केन शुध्यति?
उत्तरम् — ज्ञानेन।
(घ) जलबिन्दुनिपातेन क्रमशः कः पूर्यते?
उत्तरम् — घटः।
(ङ) आलस्यं केषां महान् रिपुः अस्ति?
उत्तरम् — मनुष्याणाम्।
प्रश्न 2 निम्नलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु।
(निम्नलिखित प्रश्नों के उत्तर पूरे वाक्य में लिखिए।)
(क) नरः कथं पूजितो भवति?
उत्तरम् — नरः वस्त्रेण वपुषा वाचा विद्यया विनयेन च — एतैः पञ्चभिः वकारैः युक्तः (सन्) पूजितो भवति।
(ख) पुरुषेण के दोषाः हातव्याः?
उत्तरम् — पुरुषेण निद्रा, तन्द्रा, भयम्, क्रोधः, आलस्यम्, दीर्घसूत्रता च — एते षड् दोषाः हातव्याः।
(ग) कस्य बुद्धिः विस्तारिता भवति?
उत्तरम् — यः पठति, लिखति, पश्यति, परिपृच्छति, पण्डितान् उपाश्रयति च, तस्य बुद्धिः विस्तारिता भवति।
(घ) किं कृत्वा मनुष्यः नावसीदति?
उत्तरम् — उद्यमं कृत्वा मनुष्यः न अवसीदति (नावसीदति)।
(ङ) व्यासस्य वचनद्वयं किम्?
उत्तरम् — “परोपकारः पुण्याय पापाय परपीडनम्” — इति व्यासस्य वचनद्वयम्।
प्रश्न 3 उदाहरणानुसारं श्लोकांशान् यथोचितं योजयन्तु।
(उदाहरण के अनुसार श्लोकांशों का सही मिलान कीजिए।)
- (क) विद्यया वपुषा वाचा वस्त्रेण विनयेन च।➜वकारैः पञ्चभिर्युक्तो नरो भवति पूजितः॥
- (ख) षड् दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।➜निद्रा तन्द्रा भयं क्रोध आलस्यं दीर्घसूत्रता॥
- (ग) अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति।➜विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति॥
- (घ) उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।➜वर्षं तद् भारतं नाम भारती यत्र सन्ततिः॥
- (ङ) जलबिन्दुनिपातेन क्रमशः पूर्यते घटः।➜स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च॥
प्रश्न 4 निम्नलिखितानां वाक्यानां समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखन्तु।
(नीचे दिए वाक्यों के समान अर्थ वाले श्लोकांश पाठ में से चुनकर लिखिए।)
(क) मधुरवाण्या सर्वे प्रसन्नाः भवन्ति।
श्लोकांशः — “प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।”
(ख) परिश्रमेण तुल्यः बान्धवः नास्ति।
श्लोकांशः — “नास्त्युद्यमसमो बन्धुः।”
(ग) परोपकारेण मानवस्य पुण्यार्जनं भवति।
श्लोकांशः — “परोपकारः पुण्याय।”
(घ) हिन्दमहासागरात् हिमालयपर्यन्तं भारतवर्षम्।
श्लोकांशः — “उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्। वर्षं तद् भारतं नाम भारती यत्र सन्ततिः॥”
प्रश्न 5 अधोलिखितानां शब्दानाम् उदाहरणानुसारं पर्यायपदानि लिखन्तु।
(नीचे दिए शब्दों के पर्यायवाची लिखिए।) यथा — वपुः → शरीरम्
| शब्दः | पर्यायपदानि (समानार्थक) |
|---|---|
| (क) जलम् | नीरम्, तोयम्, अम्बु, सलिलम्, वारि |
| (ख) लोचनम् | नेत्रम्, नयनम्, चक्षुः, अक्षि |
| (ग) धनम् | द्रव्यम्, वित्तम्, वसु, अर्थः |
| (घ) बुद्धिः | प्रज्ञा, मनीषा, धीः, मतिः, मेधा |
| (ङ) रिपुः | शत्रुः, वैरी, अरिः, सपत्नः, द्विषत् |
💡 इनमें से किसी भी एक पर्याय को उत्तर रूप में लिखा जा सकता है।
प्रश्न 6 अधः रिक्तस्थानानि तृतीयाविभक्तेः समुचितरूपैः पूरयन्तु।
(नीचे के रिक्त स्थान तृतीया विभक्ति के उचित रूपों से भरिए।)
| एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|
| सुधाखण्डेन | सुधाखण्डाभ्याम् | सुधाखण्डैः |
| वृक्षेण | वृक्षाभ्याम् | वृक्षैः |
| लतया | लताभ्याम् | लताभिः |
| देशेन | देशाभ्याम् | देशैः |
| पुण्येन | पुण्याभ्याम् | पुण्यैः |
| विनयेन | विनयाभ्याम् | विनयैः |
🎨 रंगीन = भरे गए उत्तर, धूसर = पहले से दिए गए।
प्रश्न 7 कोष्ठके पदानि विलिख्य सुभाषितं पूरयन्तु।
(कोष्ठक के पदों को लगाकर सुभाषित पूर्ण कीजिए।) दिए गए पद — उत्तरम्यत्हिमाद्रेश्चैवतद्भारतंभारती यत्रसर्वेतुष्यन्तितस्मात्वक्तव्यम्वचने का
पूर्ण सुभाषितम् 1 —
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः॥
उत्तरं यत् समुद्रस्य हिमाद्रेश्चैव दक्षिणम्।
वर्षं तद्भारतं नाम भारती यत्र सन्ततिः॥
पूर्ण सुभाषितम् 2 —
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यम् वचने का दरिद्रता॥
प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।
तस्मात् तदेव वक्तव्यम् वचने का दरिद्रता॥
प्रश्न 8 उपर्युक्तानि सुभाषितानि पठित्वा रिक्तस्थानानि पूरयन्तु।
(उपर्युक्त सुभाषितों को पढ़कर रिक्त स्थान भरिए।)
(क) आलस्यं हि मनुष्याणां शरीरस्थो ____________ रिपुः।
पूर्तिः — आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
(ख) ____________ वचने का दरिद्रता।
पूर्तिः — तस्मात् तदेव वक्तव्यं वचने का दरिद्रता।
(ग) यः पठति लिखति पृच्छति ____________ ।
पूर्तिः — यः पठति लिखति पृच्छति (परिपृच्छति) पण्डितानुपाश्रयति।
(घ) स हेतुः सर्वविद्यानां ____________ धनस्य च।
पूर्तिः — स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च।
(ङ) ____________ बुद्धिर्ज्ञानेन शुध्यति।
पूर्तिः — विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति।
परियोजना परियोजनाकार्यम् — ‘शुध्’ धातु, लट् लकार
‘शुध्’ धातोः लट्-लकारस्य रूपाणि (शुध् → शुध्यति · दिवादिगण · परस्मैपद)
| पुरुषः | एकवचनम् | द्विवचनम् | बहुवचनम् |
|---|---|---|---|
| प्रथमपुरुषः | शुध्यति | शुध्यतः | शुध्यन्ति |
| मध्यमपुरुषः | शुध्यसि | शुध्यथः | शुध्यथ |
| उत्तमपुरुषः | शुध्यामि | शुध्यावः | शुध्यामः |
📝 दूसरा भाग: पाठ में आए तृतीया विभक्ति के रूप — वस्त्रेण, वपुषा, वाचा, विद्यया, विनयेन, अद्भिः, सत्येन, ज्ञानेन, जलबिन्दुनिपातेन, दिवाकरकिरणैः, प्रियवाक्यप्रदानेन आदि। इनका प्रयोग कर वाक्य बनाइए (जैसे — सः विद्यया पूजितः भवति।)।
✨ @edugrown — नित्यं पिबाम: सुभाषितरसम् · सम्पूर्ण समाधान ✨
