सत्यं शिवं सुन्दरं संस्कृतम्
पाठ-परिचयः, श्लोक एवं भावार्थः
संस्कृतं भारतदेशस्य सम्पत् अस्ति। अस्मिन् भारतीयानां ज्ञानवैभवं सञ्चितम् अस्ति। संस्कृताध्ययनेन मानवः सुसंस्कृतः भवति। प्रस्तुते पाठे कविः वासुदेव-शास्त्री-द्विवेदी-महाभागः “संस्कृताध्ययनेन किं किं साधितं भवति” इति विषयम् अधिकृत्य षट् मधुरानि गीतानि प्रस्तौति।
भारतीयत्वसम्पादकं संस्कृतम्।
ज्ञानपुञ्जप्रभादर्शकं संस्कृतम्।
सर्वदानन्दसन्दोहदं संस्कृतम्॥
सर्ववाणीपरिष्कारकं संस्कृतम्।
सत्पथप्रेरणादायकं संस्कृतम्।
सद्गुणग्रामसन्धायकं संस्कृतम्॥
सर्वभूतैकताकारकं संस्कृतम्।
सर्वतः शान्तिसंस्थापकं संस्कृतम्।
पञ्चशीलप्रतिष्ठापकं संस्कृतम्॥
विश्वकल्याणनिष्ठायुतं संस्कृतम्।
ज्ञानविज्ञानसम्मेलनं संस्कृतम्।
भक्तिमुक्तिद्वयोद्वेलनं संस्कृतम्॥
ऐहिकामुष्मिकोत्कर्षदं संस्कृतम्।
कर्मदं ज्ञानदं भक्तिदं संस्कृतम्।
सत्यनिष्ठं शिवं सुन्दरं संस्कृतम्॥
चारुमाधुर्यधारागृहं संस्कृतम्।
विश्वचेतश्चमत्कारकं संस्कृतम्।
पूर्वजानां यशःस्मारकं संस्कृतम्॥
| शब्दः | अर्थः (संस्कृत) | हिन्दी | English |
|---|---|---|---|
| आमुष्मिकम् | परलोकस्य | परलोक का | Of the other world |
| उत्कर्षदम् | उत्कर्षं ददाति इति | उन्नति देने वाली | Bestower of excellence |
| उद्वेलनम् | उदयकृत् | उत्थान करने वाला | Awakener |
| ऐहिकम् | इह लोके भवम्, संसारस्य | संसार का | Of this world |
| कर्मदम् | कर्म ददाति इति | पुरुषार्थ देने वाली | Bestower of righteous action |
| चारु | सुन्दरम् | मनोहर | Beautiful |
| परिष्कारकम् | संस्कारकम् | शुद्ध करने वाली | Refiner |
| पुञ्जः | राशिः | समूह | Clump |
| प्रभा | दीप्तिः | प्रकाश | Light |
| भक्तिदम् | भक्तिं ददाति इति | भक्ति देने वाली | Bestower of bhakti |
| माधुर्यधारा | माधुर्यस्य धारा | मधुर रस की धारा | Flow of sweetness |
| विस्तारकम् | विस्तारं करोति यत् | विस्तार करने वाली | Expander |
| लीलावनम् | लीलायाः वनम् | क्रीडा का उद्यान | Garden for play |
| सत्पथः | सन्मार्गः | सत्य मार्ग | Noble path |
| सन्दोहः | समूहः | समूह | Group |
वाराणस्यां विद्यमानस्य “सार्वभौमसंस्कृतप्रचारकार्यालयस्य” संस्थापकः पण्डितः वासुदेव-शास्त्री-द्विवेदी-महाभागः अस्य गीतस्य रचयिता। महाशयेन सरलसंस्कृतेन बहवः ग्रन्थाः विरचिताः, संस्कृतप्रचारार्थं विपुलं साहित्यं च प्रकाशितम्। “परमार्थसुधा” इति संस्कृतपत्रिका अपि एतेन सम्पाद्यते स्म। सुरभारतीसन्देशः, स्वर्गीयसंस्कृतकविसम्मेलनम्, भोजराज्ये संस्कृतसाम्राज्यम्, कौत्सस्य गुरुदक्षिणा — इत्यादयः ग्रन्थाः अस्य सुप्रसिद्धाः सन्ति।
स्वाध्यायान्मा प्रमदः — पञ्चशीलं किम्?
बौद्धधर्मे सदाचरणस्य परिपालनाय पञ्च शीलानि सन्ति, येषाम् आचरणं मनुष्याणाम् अत्यन्तं लाभाय अस्ति—
- अस्तेयम् (चोरी न करना)
- अहिंसा
- ब्रह्मचर्यम्
- सत्यम्
- मादकद्रव्याणां परिहारः
अभ्यासाद् जायते सिद्धिः — अभ्यासः
छात्राः मिलित्वा पृथक्-पृथक् पञ्चानां छात्राणां लघुसमूहान् निर्माय यति-गति-लयपूर्वकं गीतगानस्य अभ्यासं करिष्यन्ति।
यह एक सामूहिक मौखिक गतिविधि है। ५-५ छात्रों के समूह बनाएँ। प्रत्येक श्लोक को सही यति (विराम), गति (ताल) और लय (सुर) के साथ गाएँ। “संस्कृतम्” शब्द प्रत्येक चरण के अन्त में दोहराया जाता है — उस पर समवेत स्वर में बल दें।
सूत्र: षष्ठी-तत्पुरुष समास में पूर्वपद की षष्ठी विभक्ति (के/की) करके विग्रह किया जाता है — “…का/की …करने वाला”।
यस्तु क्रियावान् मनुजः स विद्वान् — परियोजना
“संस्कृताधारिता भारतीयैकता” इति विषयम् आधृत्य भाषणप्रतियोगिता आयोजनीया। शिक्षकः अधोलिखितबिन्दूनाम् आधारेण अङ्कान् दास्यति—
| मानदण्डः | ५ | ४ | ३ | २ | १ |
|---|---|---|---|---|---|
| प्रवाहः | प्रवाहपूर्वकं संवादं करोति | केषुचित् बिन्दुषु विरामं, किन्तु संचारः न बाधितः | केषुचित् बिन्दुषु विरामं, संचारः बाधितः | प्रायः विरामं, संचारः कठिनः | संचारः एव न जायते |
| शुद्धता | योग्य वाक्य-संरचना | अत्यल्पाः व्याकरण-दोषाः | नैमित्तिक व्याकरण-दोषाः | त्रुटिपूर्ण वाक्य-संरचनाः | वाक्य-संरचना एव न |
| शब्दकोषः | विविध प्रासंगिक शब्दकोशः | शब्दावल्यां विविधता | प्रासंगिक-सीमित शब्दकोशः | सीमित शब्दकोशः | द्वि-त्रयः एव शब्दाः |
संस्कृतं भारतस्य आत्मा अस्ति। काश्मीरतः कन्याकुमारी पर्यन्तं सर्वासां भारतीयभाषाणां मूलं संस्कृतम् एव। एका भाषा सर्वान् भारतीयान् एकसूत्रे बध्नाति — एषा एव “भारतीयैकता”। वेदाः, उपनिषदः, गीता च समग्रदेशस्य साझा सम्पत्तिः अस्ति। अतः संस्कृतेन एव भारतस्य एकता दृढा भवति।
“विश्वबन्धुत्वभावनायाः विकासाय के मार्गाः अवलम्बनीयाः” इति विषयम् अधिकृत्य सहपाठिभिः सह आलोचनां कुरुत।
- “वसुधैव कुटुम्बकम्” भावनायाः प्रचारः — समस्तं जगत् एकं परिवारः इति बोधः।
- अहिंसा एवं सहिष्णुता — सर्वेषु प्राणिषु प्रेम तथा करुणा।
- भाषा-संस्कृति-आदानप्रदानम् — अन्यदेशीयैः सह मैत्री।
- शान्ति-संवादः — युद्धस्य स्थाने वार्तालापेन समस्या-समाधानम्।
- सेवा एवं त्यागः — परोपकारेण विश्वबन्धुत्वं दृढं भवति।
सुभाषितम्
संस्कृतं संस्कृतेर्मूलं ज्ञानविज्ञानवारिधिः।
वेदतत्त्वार्थसंजुष्टं लोकालोककरं शिवम्॥
भावार्थ: संस्कृत संस्कृति का मूल है, ज्ञान-विज्ञान का समुद्र है, वेदों के तत्त्वार्थ से युक्त है तथा लोक एवं परलोक दोनों को प्रकाशित करने वाला कल्याणकारी है।
॥ इति प्रथमः पाठः समाप्तः ॥
